________________
१५४
चतुर्विंशतिप्रबन्धे
समयः । अनुज्ञापितो वङ्कचूलः सूरिभि:समणाणं सउणाणं भ्रमरकुलाणं गोकुलाणं च । अनिआओ वसहीओ सारईआणं च मेहाणं ॥ १ ॥
५
इत्यादि वाक्यैः । ततस्तैः सह चलितो वङ्कचूलः । स्वसीमां प्रापुषा तेन विज्ञप्तम् — वयं परकीयसीमां न प्रविशाम इति । सूरिभिर्भणितः -- वयं सीमान्तरमुपेताः तत् किमप्युपदिशामस्तुभ्यं, दाक्षिण्यात् । तेनोक्तम् - यन्मयि निर्वहति तदुपदेशेनानुगृह्यतामयं जनः । ततः सूरिभिश्चत्वारो नियमा दत्ताः, तद्यथाअज्ञातफलानि न भोक्तव्यानि १, सप्ताष्टानि पदान्यपसृत्य घातो १० देयः २ पट्टदेवी नाभिगन्तव्या ३, काकमांसं न भक्षणीयमिति ४ । प्रतिपन्नास्तेन ते । गुरून् प्रणम्य स्वगृहमगमत् ।
[१६ श्री
:
अन्यदा गतः सार्थस्योपरि धाट्याम् । शकुनकारणान्न गतः सार्थः । त्रुटितं च तस्य पथ्यदनम् । पीडिताः क्षुधा राजन्याः । दृष्टश्व तैः किम्पाकतरुः फलितः । गृहीतानि फलानि । न जानन्ति ते १५ नामधेयमिति तेन न भुक्तानि । इतरैः सर्वैर्बुभुजिरे । मृताश्च ते किम्पाकफलैः । ततश्चिन्तितं तेन - अहो नियमानां फलम् ! । तत एकाक्येवागतः पलीम् । रजन्यां प्रविष्टः स्वगृहम् । दृष्टा पुष्पचूला दीपालेोकेन पुरुषवेषा निजपत्न्या सह प्रसुप्ता । जातश्च कोपस्तयोरुपरि । द्वावप्येतौ खड्गप्रहारेण छिनभि । इति यावद - २० चिन्तयत् तावत् स्मृतो नियमः । ततः सप्ताष्ट पदान्यपक्रम्य घा ददतः खोट्कृतमुपरि खड्गेन । व्याहृतं स्वस्रा - जीवतु वङ्कचूलः ।
१ छाया - श्रमणानां शकुनानां भ्रमरकुलानां गोकुलानां च । अनियता वसतयः शारदीयानां च मेघानाम् ॥
२ आर्या ।
३ ' दाक्षिण्यात् ' इति पाठः घ- प्रतौ नास्ति । ४ ख - घ - 'स्व ( स ) स्वगृहमगमन् ' ५ घ - ' परिपथा ( ? ) शकुन ० ' । ६ क ख - 'पथ्यदिनम् ', घ - 'एष्यदिनम् । ७ के'इति तैः । ८ घ - 'पदान्यपसृत्य' । ९ घ - 'खाटत्कृत ० ' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org