SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्रबन्धक शेत्यपराये [ १६ ] ।। अथ वङ्कचूलप्रबन्धः ॥ 'पारेत 'जनपदान्त- 'श्वमण्वत्या' स्तटे महानद्याः । नानाघनवनगहना, जयत्यसौ ' ढीम्पुरी 'ति पुरी ॥ १ ॥' अत्रैव ‘भारते' वर्षे विमलयशा नाम भूपतिरभूत् । तस्य सुमङ्गलादेव्या सह विषयसुखमनुभवतः क्रमाज्जातमपत्ययुगलम् । तत्र पुत्रः पुष्पचूलः पुत्री पुष्पचूला । अनर्थसार्थमुत्पादयतः पुष्पचूलस्य कृतं लोकैर्वङ्कचूल इति नाम । महाजनोप (पा ? ) लब्धेन राज्ञा रुषितेन निःसारितो नगराद् वङ्कचूलः । गच्छंश्च पथि पतितो भीषणायामटव्यां सह निजपरिजनेन स्वस्रा च स्नेहपरवशया । १ तत्र च क्षुत्पिपासार्दितो दृष्टो भिल्लैः नीतः स्वपल्लयाम् । स्थापितच पूर्वपल्लीपतिपदे । पर्यापालयद् राज्यम् । अलुण्टयद् ग्राम-नगरसार्थादीन् ! ० प्रबन्धः ] अन्यदा सुस्थिताचार्या ' अर्बुदा' चला 'दष्टापद' यात्रायै प्रस्थितास्तामेव ' सिंहगुहां' नाम पल्लीं सगच्छाः प्रापुः । जातश्च १५ वर्षाकालः | अजनि पृथिवी जीवाकुला । साधुभिः सहालोच्य मार्गयित्वा वङ्कचूलाद् वसतिं स्थितास्तत्रैव सूरयः । तेन च प्रथममेव व्यवस्था कृता- मम सीमान्तधर्मकथा न कथनीया, यतो युष्मत्कथायां अहिंसादिको धर्मः, न चैवं मम लोको निर्वहति । एवमस्तु इति प्रतिपद्य तस्थुरुपाश्रये गुरवः । वङ्कचूलेनाहूय २० सर्वे प्रधानपुरुषा भणिताः -- अहं राजपुत्रस्तन्मत्समीपे ब्राह्मणादय आगमिष्यन्ति । ततो भवद्भिर्जीववधो मांसमद्यादिप्रसङ्गश्च पैलीमध्ये न कर्तव्यः । एवं कृते यतीनामपि भक्तपानमजुगुप्सितं कल्पत इति । तैस्तथैव कृतं यावश्चतुरो मासान् । प्राप्तो विहार १ आर्या । २ ग चतुर्विंशति • २० Jain Education International - 'भूतपूर्व ० | ३ ग 'पडचा मध्ये' । १५३ For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy