SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [१ श्रीभवबाहुवराहप्रमीतो बालः। रुघते वराहगृहे। मिलिलो लोकः । भद्रबाहुनाऽपि श्रावका उक्ताः-- शोकापनोदो धर्माचार्य इति तत्रास्माभिरधुना गन्तव्यम् । श्रावकर्शतावृता गतास्तत्राचार्याः । वराहः शोकसङ्कुलोऽप्यभ्युत्थानााचितमकरोत् , अभ्यदधाच्च-- आचार्याः ! भवतां ज्ञानं मिलितम्, केवलं बिडालीतो मृत्युन, किन्वर्गलातः । भद्रबाहुना निजगदे-तस्या अर्गलाया लोहमय्या अग्रभागे रेखामयी बिडाल्यस्ति, नासत्यं ब्रूमः । ओनीताऽवलोकिताऽर्गला तथैवास्ते, अथोवाच वराहः-- तथा पुत्रशोकेन न खिद्येऽहं यथा राज विदिताख्यातपुत्रशतायुस्त्ववैफल्येन खिये। धिगमीषा निजपुस्तकानां १० प्रत्ययेनास्माभिर्ज्ञानं प्रकाशि, एतान्यसत्यानि, तस्मान्मृज्मः । इत्युक्त्वा कुण्डानि जलैरपूपुरत् । पुस्तकानि माष्टुं स यावदारभते तावद् भद्रबाहुना बाहुना धृत्वा वारितः । आत्मप्रमादेन ज्ञानं विनाश्य कथं पुस्तकेभ्यः कुप्यसि ? एते पुस्तकाः सर्वज्ञोक्तमेव भाषन्ते, ज्ञाता तु दुर्लभः। अमुकस्मिन् स्थाने त्वं विपर्यस्तमतिर्जातः, १५ आत्मानमेव निन्द । प्रभुप्रसादस्तारुण्यं, विभवो रूपमन्वयः । शौर्य पाण्डित्यमित्येत-दमचं मदकारणम् ॥ १॥ मत्तस्य च कुतो विचारसूक्ष्मेक्षिकाः । तस्मान्मा भाङ्क्षीः पुस्तकान् इति निषिद्धः । विलक्षीभूय स्थितो वराहः । तत्रान्तरे पूर्व तत्कृता२० हन्मतगर्दापीडितमनसा केनापि श्रावकेण पठितम् युष्मादृशाः कृपणकाः कृमयोऽपि यस्यां ___ भान्ति स्म सन्तमसमय्यगमन्निशाऽसौ । सूर्याशुदीप्तदशदिग्दिवसोऽधुनाऽयं भात्यत्र नेन्दुरपि कीटमणे! किमु त्वम् ॥१॥" १ ग-'प्रमृतो'। २ ग-'शतवृता' । ३ ख- ' शन्कुसङ्कुलो'। ४ क'अभ्यधाच्च'। ५ क-'आनीयाव०'। ६ क-'प्रकाशितं' । ७ ग- 'तस्मात् तु मृज्मः । ८ ग-'बाहौ'। ९ अनुष्टुप् । १० वसन्त । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy