________________
प्रबन्धः 1
प्रबन्धक शेत्यपराह्वये
/
मस्माकं जीवितं येन गुर्वज्ञां सहामहे । किं कुर्मः ? । अयं कलावानिति नरपतिना पूज्यते । राजभिः पूज्यते यश्च सर्वैरपि पूँज्यते । भवतु, तथापि भद्रबाहुमाह्वयामस्तावत् । इति सम्मन्त्र्य तथैव चक्रुः । आगताः श्रीभद्रबाहवः । कारितः श्रावकैः संस्पर्द्धप्रवेशमहः । स्थापिता गुरवः सुस्थाने । नित्यं व्याख्यारसानास्वादयामासुः सभ्याः । भद्रबाह्रागमे स वराहो बाढं मम्ली, तथापि तेभ्यो नापकर्तुमशकदसौ ।
अत्रान्तरे वराहमि (हि) हरगृहे पुत्रो जातः । तज्जन्मतुष्टः प्रभूतं धनं व्ययति स्म । लोकाच्च पूजामाप्नोति स्म । पुत्रस्य वर्षशतमायुरिति तेन नरेन्द्रादिलोकाग्रसभासमक्षं प्रख्यापितम् । १० गृहे उत्सवोदयस्तस्य ।
एकदा सदसि वराहः प्राह स्म - अहो सहोदरोऽपि भद्रबाहु पुत्रजन्मोत्सवे नागात् इति बाह्या एते । एतदाकर्ण्य श्रावकैर्भद्रबाहुर्विज्ञतः - एवं एवमसौ वदन्नास्ते, गम्यतां भवद्भिरेकदा तद्गृहम् मा वृधन्मुधा क्रोधः । श्रीभद्रबाहुनाss- १५ दिष्टम् - द्वौ क्लेशौ कथं कारयध्वे ? । अयं बालः सप्तमे दिने रात्रौ निशीथे बिडालिकया घानिष्यते । तस्मिन् मृते शोकविसर्जनायापि गन्तव्यमेव तावत् । ततः श्रावकैरूचे- तेन विप्रेणोपराजमर्भस्य समाशतमायुरुक्तम्, भवद्भिः पुनरित्थमादिष्यते, किमेतत् ? श्रीभद्रबहुस्वामिना भणितम् - ज्ञानस्य प्रत्ययः सारम् स चासन्न २० वास्ते । स्थितास्तूष्णीं श्रावकाः । आगतं सप्तमं दिनम् । तत्रैव द्विप्रहरमात्रायां संत्र्यां बालं स्तन्यं पाययितुं धात्र्युपविष्टा । द्वारशीखामे न्यस्ताऽर्गला बालमस्तके पतिता जनान्तरसञ्चारात् ।
१ 'ख'- 'स पूज्यते' । २ क ख 'सस्पर्द्धिप्र० ' । ३ घ - ' स्पर्ध ' । ४ ग· 'भद्रबाह्रागमे वराहो । ५ क - ' भद्रबाहुर्मे इत आरभ्य 'क्रोधः' एतत्पर्यन्त नास्ति । ६ ख - ' भद्रबाहुना' । ७ ग 'पुनरि६०' १८ ख - 'बाहुन' ९ क ख - 'मात्र्या' । १० ग - 'रात्रौ' । ११ ग 'शाखाग्रन्यस्ता' । १२ - 'मस्तकपना' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org