________________
चतुर्विंशतिप्रबन्धे
[१ श्रीभद्रबाहुवराह
गतः पुनर्द्विजर्वेषं जग्राह ।
व्रतावस्थाऽधीतशास्त्रार्थज्ञतया वाराहसंहितादिनवीनशास्त्ररचनायां प्रजगल्भे, लोकेषु च जगाद- अहं बाल्ये लममभ्यस्यामि स्म । तद्विचार एव लीनस्तिष्ठामि स्म । एकदा प्रतिष्ठानाद् बहिः 'शिलायामेकस्यां लग्नं मण्डयामि स्म । सायममृष्ट एव तस्मिन् स्वस्थानमागत्य स्वपिमि स्म । सुप्तोऽहं तल्लग्नममृष्टं स्मरामि स्म । ततो माष्टुं तत्र यामि स्म । तत्र लग्नाधिष्ठिते शिलातले पञ्चानन उपविष्टोऽभूत् , तथापि तदुदरदेशे कर निक्षिप्य मया तल्लग्नं मष्टम् ;
तावता पञ्चाननः साक्षाद् भास्कर एवाभूत् । तेनाहं भाषितः१० वत्स ! तव दृढनिश्चयतया लग्नग्रहभक्त्या च बाढं तुष्टोऽस्मि,
रविरहम् , वरं वृणीष्व । अथ मयोक्तम्-स्वामिन् ! यदि प्रसन्नोऽसि तदा निजविमाने चिरं मामवस्थाप्य सकलमपि ज्योतिश्चक्र मे दर्शय। अथाहं 'मिह (हि)रेण चिरं स्वविमानस्थः खे भ्रांमितोऽस्मि ।
सूर्यसमितामृतसन्तर्पितेन च मया क्षुत्तृषादिदुःखं न १५ किञ्चिदनुभूतम् । कृतकृत्यश्च सूर्यमापृच्छय ज्ञानेन च जगदुप
कर्तुं महीलोकं भ्रमन्नस्मि । अहं वराहमिह(हि)र इति वाच्यः । इत्यादि स्वैरं प्रख्यापयामास । सम्भाव्यत्वात् लोके पूजां परमामाप्य 'प्रतिष्ठान'पुरे शत्रुजितं भूपालं कलाकलापेन रञ्जयामास ।
तेन निजपुरोहितः कृतः । यतः२०. गौरवाय गुणा एव, न तु ज्ञातेयडम्बरः ।
वानेयं गृह्यते पुष्प-मङ्गजस्स्यज्यते मलः ॥ १॥ ____ अथ श्वेताम्बरान् निन्दति-किममी वराकाः काका 'विदान्त ? मक्षिकावद् भिणिहणायमानाः कारास्था इव कुचेलाः कालं क्षपयन्ति, क्षपयन्तु । तच्छृण्वतां श्रावकाणां शिरःशूलमुत्पेदे । "धिगिद१ क-'विशालायामेक०।२ क-ख- 'दृढतया लम'। ग-'मवस्थापय। - सूर्येण । ५ क-ख-घ- भ्रमितोऽस्मि ' । ६ क-ख- 'माप'। ७ वने जातम् । ८ अनुष्टुप् । ९ क-ख-'वदन्ति' । १० क-ख- 'धिगस्माक' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org