SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ० प्रबन्धः ] प्रबन्धकोशेत्यपराजये चतुर्दशपूर्वी समागतः । भद्रबाहु-वराही तद्देशनां शुश्रुवतुः । यथाभोगा भगुरवृत्तयो बहुविधास्तैरेव चायं भव स्तत्त्वस्येह कृते परिभ्रमत रे लोकाः । सृ(कृ?)तं चेष्टितैः । आशापाशशतोपशान्तिविशदं चेतः समाधीयतां ___ क्वाप्यात्यन्तिकसौख्यधामनि यदि श्रद्धेयमस्मद्वचः ॥ १ ॥ एतच्छ्वणमात्रत एव प्रतिबुद्धौ गृहं गत्वा तौ मन्त्रयेते स्म-जन्म ५ कथं वृथा नीयते । तावद् भोगसामग्री नास्ति, तर्हि योगः साध्यते । अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः __ पृष्ठे लीलावलयराणितं चामरग्राहिणीनाम् । यद्यत्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः ! प्रविश सहसा निर्विकल्पे समाधौ ॥१॥ इति विमृश्य द्वावपि बान्धवौ प्रवव्रजतुः । भद्रबाहुश्चतुर्दशपूर्वी षट्त्रिंशद्गुणसम्पूर्णः सूरिरासीत् । १ दशवैकालिक-२ उत्तराध्ययन-३ दशाश्रुतस्कन्ध-४ कल्प-५ व्यवहार-६ आवश्यक-७ सूर्यप्रज्ञप्ति-८ सूत्रकृत-९ आचा- १५ राङ्ग-१० ऋषिभाषिताख्यग्रन्थदशकप्रतिबद्धदशनियुक्तिकारतया पप्रथे, भ(भा?)द्रबाहवीं नाम संहितां च व्यरचयत् । तदा आर्यसम्भूतिविजयोऽपि चतुर्दशपूर्वी वर्तते। श्रीयशोभद्रसूरीणां स्वर्गगमनं जातम् । भद्रबाहुसम्भूतिविजयौ स्नेहपरौ परस्परं भव्याम्भोरुहभास्करौ विहरतो 'भरते' पृथक् पृथक् । वराहोऽपि २० विद्वानासीत् ; केवलमखर्वगर्वपर्वतारूढः सूरिपदं याचते भद्रबाह्वाह्नसहोदरपार्थात् । भद्रबाहुना भाषितः सः-वत्स ! विद्वानसि, क्रियावानसि, परं सगर्वोऽसि; सगर्वस्य सूरिपदं न दभः । एतत् सत्यमपि तस्मै न सस्वदे, यतो 'गुरुवचनममलमपि महदुपजनयति श्रवणस्थितं शूलमभव्यस्य' । ततो व्रतं तत्याज । मिथ्यात्वं २५ घ-'भुव-'। २ घ-'शान्त.'। ३ शार्दूल । ४ख-'गृहे । ५ मन्दाक्रान्ता । ६ क-ख-'स्वर्ग' । ७ घ-'मपि सलिलमिव मह०' । ८ क-'सदुप० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy