________________
चतुर सिमबन्धे
[१] श्रीभद्रबाहुचराई
इह विल शिष्येण विनीतविनयेन जलधिपार मरय क्रियापरस्य गुरोः समीपे विधिना सर्वमध्येतव्यम् । ततो भव्योपकाराय देशना क्लेशनाशिनी विस्ताय । तद्विधिश्चायम् - अस्खलितम्, अमिलितम्,
अहीनाक्षरं सूत्रमुच्चार्यम् । अग्राम्यललितभङ्गयाऽर्थः कथ्यः । ५ कायगुप्तेन परितः सभ्येषु दत्तदृष्टिना यावदर्थबोधं वक्तव्यम् । वक्तुः प्रायेण चरितैः प्रबन्धैश्च कार्यम् । तत्र श्रीऋषभादिवर्धमानान्तानां जिनानाम्, चत्र्यादीनां राज्ञामू, ऋषीणां चार्यरक्षितान्तानां वृत्तानि चरितानि उच्यन्ते । तत्पश्चात्कालभाविनां तु नराणां वृत्तानि प्रबन्धा इति ।
इदानीं वयं गुरुमुखश्रुतानां विस्तीर्णानां रसाढ्यानां चतुर्विंशतेः प्रबन्धानां सङ्ग्रहं कुर्वाणाः स्म । तत्र सूरिप्रबन्धा दश, कविप्रबन्धाश्चत्वारः, राजप्रबन्धाः सप्त, राजाङ्गश्रावकप्रबन्धास्त्रयः, एवं चतुर्विं - शतिः । १ भद्रबाहु - वराहयोः, २ आर्यनन्दिलक्षपणकस्य, ३ जीवदेवसूरीणाम्, ४ आर्यखपटाचार्याणाम् ५ पादलिप्त १५ प्रभूणाम्, ६ वृद्धवादि- सिद्धसेनयोः, ७ मल्लवादिनः, ८ हरिभद्रसूरीणाम्, ९ बैष्पभट्टिसरीणाम्, १० 'हे मसूरीणाम्, ११ श्रीहर्षकवेः, १२ हरिहरकवेः, १३ अमरचन्द्रकवेः, १४ दिगम्बरमदनकीर्तिकवेः, १५ सातवाहन - १६ वङ्कचूल–१७ विक्रमादित्य - १८ नागार्जुन - १९ उदयन- २० लक्षणसेन२० २१ मदनवर्मणाम्, २२ रत्न- २३ आभड - २४ वस्तुपालानां चेति । तेषु प्रथमम् -
१०
[ १ ]
|| भद्रबाहुवराहप्रबन्धः ॥
दक्षिणापथे 'प्रतिष्ठान' पुरे भद्रबाहु-वराहाहौ द्वौ द्विजौ कुमारौ निर्धनो निराश्रयौ प्राज्ञौ वसतः । तत्र यशोभद्रो नाम
१ घ- 'इह हि किल' । २ ख ग घ ' सूत्रम् ' । ३ ग घ - 'श्रीजीव०' । ४ घ 'श्रीहरि । ५ घ - 'श्री बप्प ० ' । ६ घ - ' 'श्रीहेम ० ' । ७ घ- 'रत्न श्रावकआभड ० । ८ ख-घ - 'एषु' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org