SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अहम् . श्रीराजशेखरसूरिवरविरचिता ॥ चतुर्विंशतिप्रबन्धः॥ प्रबन्धकोशेत्यपराह्वयः राज्याभिषेके कनकासनस्थः, सर्वाङ्गदिव्याभरणाभिरामः । श्रियेऽस्तु वो मेरु'शिरोऽवतंसः, कल्पद्रुकल्पः प्रथमो जिनेन्द्रः ॥१॥ विवेकमुच्चैस्तरमारुरोह य-स्ततोऽद्रिशृङ्गं चरणं ततस्तपः। ततः परं ज्ञानमयोत्तमं पदं, श्रियं स नेमिर्दिशतूत्तरोत्तराम् ॥२॥ यस्मै स्वयंवरसमागतसप्ततत्त्व लक्ष्मीकरग्रहणमाचरतेति भक्त्या । सप्त व्यधात् फणिपतिः फणमण्डपान् किं । वामाऽङ्गभूः स भगवान् भवतान्मुदे वः ॥ ३ ॥ अर्थेन प्रथमं कृतार्थमकरोद् यो वीरसंवत्सरे - दाने च व्रतपर्वजेऽथ परमार्थेनापि विष्वग् जनम् । १० यद्दत्तागमशुद्धबीजकबलादद्यापि तत्त्वाभिधा लभ्यन्ते निधयो बुधै र्भरत'भुव्यस्यां स वीरः श्रिये ॥ ४ ॥ देयासुर्वाङ्मयं मे जिनपगणभृतो भारती सारतीव्रा भारत्याः सौम्यदृष्टया विलसतु मम सा सन्तु सन्तः प्रेसन्नाः। सूरि सद्गुरुः श्रीतिलक इति कलाः स्फोरयत्वस्तविघ्नः . शिष्याः स्फूर्जन्तु गर्जन्त्वविरलसुकृतश्रेणयः श्रावकौघाः ॥ ५॥ १ ग-'णेऽमिरामः'। २ श्रीऋषमस्तीर्थङ्करः। ३ उपजातिः। ४ ग-‘मथे। सरं पदं । ५ क-'तरम्'। ६ वंशस्थविलम् । ७ वसन्ततिलका । ८ शार्दूलविक्रीडितम् । कच-प्रसमा । १. सम्परा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy