________________
प्रबन्धा]
प्रबन्धकोशेत्यपराहये इति वदन्नेव नष्टः सः । बाढ़ पीडितो वराहः । अत्रान्तरे स्वयमागतो राजा। राज्ञोक्तम्-मा स्म शोचीः, भवस्थितिरियं विद्वन् ।। तदा जिनभक्तेन राजमन्त्रिणैकेन भणितम्-ते आचार्या नवा याताः सन्ति यैर्डिम्भस्य सप्ताहमात्रमायुरभाणि, ते सङ्गतवाचो महात्मानः । केनापि दर्शिता भद्रबाहवा, एते ते; तदा द्विज- ५ स्तथा दूनो यथा स एव विवेद । गतो राजाऽपि, भद्रबाहुरपि, लोकोऽपि स्वस्थानम् । राजा श्रावकधर्म प्रतिपेदे । वराहोऽपमानाद् भागवतीं दीक्षां गृहीत्वाऽज्ञानकष्टानि महान्ति कृत्वा जैनधर्मद्वेषी दुष्टो व्यन्तरोऽभूत् । ऋषिषु द्वेषवानपि न प्रबभूव । तपो हि वज्रपञ्चरप्राय महामुनीनां परप्रेरितप्रत्यूहपृषत्कदुर्भेदतरम् । अतः १० श्रावकानुपद्रोतुमारेभे। गृहे गृहे रोगानुत्पादयामास । श्रावकै : पीडाःमंद्रबाहुरादरेण विज्ञप्तः-भगवन् ! भवति सत्यपि यद् वयं रुग्भिः पीड्यामहे, तत् सत्यमिदम्- कुञ्जरस्कन्धाधिरूढोऽपि भषणैर्भक्ष्य(ध्य ?)ते इति ? । गुरुभिरभाणि-मा भैष्ट, सोऽयं वराहमिह(हिरः पूर्ववैराद् भवद्भयो दुध्रुक्षति । रक्षामि पाणेरपि वज्रपाणेः । ततः १५ पूर्वेभ्य उद्धृत्य ' उवसग्गहरं पासम् ' इत्यादि स्तवनं गाथापञ्चकमयं सन्ददृभे गुरुभिः । पठितं च तल्लोकैः । सद्यः शान्ति गताः क्लेशाः। अद्यापि कष्टापहारार्थिभिस्तत् पठ्यमानमास्ते । अचिन्त्यचिन्तामाणप्रतिमं च तत् । श्रीभद्रबाहूनां विद्योपजीवी चतुर्दशपूर्वी श्रीस्थूलभद्रः परमतान्यचुचूर्णत् ।
इति श्रीभद्रबाहुवराहप्रबन्धः प्रथमः ॥ प्र० १२२ ॥
२०
१ ख-'बराहचरः'। २ ख-तोके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org