________________
१५०
चतुर्विंशतिप्रबन्धे
[१५ श्रीसातवाहन
सम्राडवातरीः । तदेकस्तत्रयो व्यन्तरो वेत्ति । तेन मीने सङ्क्रम्य हसितं त्यया दृष्टम् । राजाऽऽह-हासस्य को भावः ? । ब्राह्मी वक्ति अयं भावः- अयं दानादाप्तर्द्धिः पुनर्दाने मन्दादरः । धिगात्मकार्यमूढं जीवलोकमिति । सातवाहनो जल्पति-तस्य न्यन्तरस्य मञ्चर्चया कि कार्यम् ? । ब्राह्म्याह - प्राग्भवेऽयं तवैव सखाऽभूत् । तेन कृपणत्वात् किमपि न दत्तम् , केवलं त्वदत्तमेव किंश्चिदनुमोदितम् । तेन पुण्येन व्यन्तरत्वे नावतीर्णोऽयम् । ततस्त्वयि हितार्थित्वमस्य । मां च त्वन्मन्त्रशक्तिसमाकृष्टिप्रत्यक्षा
त्वन्मातृकल्पां जानाति । ततस्तथाऽहसदिति विद्धि । तवृत्तान्त. १. ज्ञानादवनीशो वदान्यत्वं सुष्ठाददे । ब्राह्मीश्रीदत्तशब्दवेधरस
सिद्धेरिच्छादानी मानी जैनः । इत्थङ्कारं नानाविधान्यवदातानि हालक्षितिपालस्य कियन्ति नाम वर्णयितुं पार्यन्ते ? । स्थापित चानेन 'गोदावरी'तीरे महालक्ष्मीः प्रासादे । अन्यान्यपि च
यथार्ह दैवतानि निवेशितानि तत्तत्स्थानेषु । १५ राज्यं प्राज्यं चिरं भुखाने जगतीजानौ अन्यदा कश्चिद् दारु
भारहारकः कस्यचिद् वाणिजस्य थिौ प्रत्यहं चारुकाणि दारूण्याहृत्य विक्रीणीते स्म । दिनान्तरे च तस्मिन्ननुपेयुषि वणिजा तद्भगिनी पृष्टा-किमर्थ भवद्भ्राताऽद्य नागतो मद्वीभ्याम् ? । तया बभणे
श्रेष्ठिश्रेष्ठ ! मत्सोदर्यः स्वर्गिषु सम्प्रति प्रतिवसति । वणिगभणत्२० कथमिव ? । साऽवदत्-कङ्कणबन्धादारभ्य विवाहप्रकरणे दिन
चतुष्टयं नरः स्वर्गिष्विव वसन्तमात्मानं मन्यते, तदुत्सवालोकनकौतूहलात् । तच्चाकर्ण्य राजाऽप्याचन्तयत्-अहो अहं स्वर्गिषु किं न वसामि ? । चतुषु चतुर्ष दिनेषु अनवरतं विवाहोत्सवमय
एव स्थास्यामि । इति विचार्य चातुर्वण्र्ये यां यां कन्यां युवति २५रूपशालिनी पश्यति शृणोति स्म च तां तां सोत्सवं पर्यणैषीत् ।
१ ग- 'भूपोऽभूत्' । २ 'पुनः' इत्यधिको ग-पाठः । ३ घ-'लक्ष्मी प्रासादे'। घ-बारूपाणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org