________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्नये
एवं च भूयस्यनेहसि गच्छति लोकैश्चिन्तितम्- अहो कथं भाव्यमनपलैरेव सर्ववर्णैः स्थेयम् । सर्वाः कन्यास्तावद् राजैव विवोढा । योषिदभावे च कुंतः सन्ततिरिति । एवं विषण्णेषु लोकेषु 'विवाहवाटिका' नाम्नि ग्रामे वास्तव्य एको द्विजः पीठजां देवीमाराध्य व्यजिज्ञपत्- भगवति ! कथं विवाह कर्माऽस्मादपत्यानां भावीति ? | देव्योक्तम् - भो वाडव ! त्वद्भवनेऽहमात्मानं कन्यारूपं कृत्वाऽवतरिष्यामि । यदा मां राजा प्रार्थयते तदाऽहं तस्मै देया, शेषमहं करिष्ये । तथैव राजा तां रूपवतीं श्रुत्वा विप्रमयाचत । 1 सोऽपि जगाद - दत्ता मया, परं महाराज ! स्वयमत्रागत्य मत्कन्योदोढव्या । प्रतिपन्नं राज्ञा । गणकदत्ते लग्ने क्रमाद् विवाहाय १० प्रचलितः । प्राप्तश्च तं ग्रामं श्वशुरकुलमवनिपतिः । देशाचारानुरोधाद् वधूवरयोरन्तराले जवनिका दत्ता । अञ्जलिर्युगन्धरीलाजैभूतः । लग्नवेलायां तिरस्करिणीमपनीय यावदन्योन्यस्य शिरसि लाजान् वितरितुं प्रवृत्तौ तदनु किल हस्तमेलापो भविष्यतीति ताबदू राजा लां रौद्ररूपां राक्षसीमिवैक्षिष्ट । ते च लाजाः कठिन- १५ कर्करपाषाणरूपा राज्ञः शिरसि लगितुं लग्नाः । क्षितिपतिरैपि किमपि विकृतमिदमिति विभावयन् पलायितः । तावत् सा पृष्ठलग्नाऽश्मशकलानि वर्षन्ती प्राप्ता । ततो नरपतिर्नागदे प्राविशन्निजजन्मभूमिम् । तत्रैव च निधनमानशे । अद्यापि सा पीठजा देवी प्रतोल्या बहिरास्ते निजप्रासादस्था । शूद्रकोऽपि क्रमेण २० कालिकादेव्याऽजारूपं विकृत्य वापीं प्रविष्टया करुणरसितेन विप्रलब्धस्तन्निष्कासनार्थं प्राविशत् । पतितस्य तस्य कृपाणस्य कूपद्वारे तिर्यक्पतनाच्छिन्नाङ्गः पञ्चतामानश्च । महालक्ष्म्या दि वरवितरणावसरेऽस्माद् देवैकौशेयकात् तव दिष्टान्तावाप्तिर्भवित्रीत्यादिष्टमासीत् । ततः शक्तिकुमारो राज्येऽभिषिक्तः । सात - २५
१ घ - ' भीष्ये' । २ जवनिकाम् । ३ घ - 'कठिन पाषाण कर्कररूपा' । ४ ख - 'रति किमपि । ५ ग ' खन्नात् तव मरणं भावीत्या ० ' । ६ ख - घ - ' शातवाहनाय ' ।
Jain Education International
१५१
For Private & Personal Use Only
www.jainelibrary.org