________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये उत्तरओ हिमवंतो दाहिणओ 'सालिवाहणो राजा(या)। समभारभरकंता तेण न पल्हत्थए पुहवी ॥२॥ तादृशं तस्य गर्वमीक्षमाणा महामन्त्रिणोऽन्योन्यं मन्त्रयामासु :नृपः श्रिया तरलितः । ततः -
जितश्चेत् पुरुषो लक्ष्म्या, हृतं लोकद्वयं ततः। ५
जिता चेत् पुरुषेणैषा, जितं लोकद्वयं ततः ॥१॥ तस्मादस्य दुःखोत्पादनेन मदगदोच्छेदः कर्तुमर्हः । इत्यालोच्य राजानं व्यजिज्ञपन्-देव ! ललाटंतपतपनः काल. भोजनावसरो वर्तते । पादोऽवधार्यतां सौधाय । इत्युदित्वा सौधमानैषुः । तत्रापि मदात् स्तम्भादीनि कुट्टयति । ततो मन्त्रिभिः खरमुखं वीरोत्तंसं १० छन्नीकृत्य राज्ञे उतम्-देव ! खरमुखः सद्यो व्याधिना द्यामगमत् । अथ तच्छवणे क्षमापो दुःखाच्छोकान्मदमहासीत् । शोकात् तु वैकल्यमचकलत् । अथामात्यैर्विज्ञप्तम्-प्रजेश्वर ! विदेशादायातैर्मृतजीवनविद्याविदुरैः खरमुखो जीवितः । यद्यादेशः स्यात् तदा पदकमलयुगलतले लोन्यते । इत्युक्ते सुस्थो जातः । दृष्टः खरमुखः। १५ सुष्ठु तुष्टो राजा । एवं तस्योदयः।
अन्यदाऽसौ 'गोदावरी'तीरे क्रीडति । तदैकमीनेन जलाद् बर्हिमुखं निष्कास्य हसितम् । भीतश्चमत्कृतश्च भूपः । रात्रौ ध्यानाकृष्टाऽऽयाता ब्राह्मी पृष्टा-देवि! मीनः किमर्थ हसति ? । प्राइम्याह-वत्स! प्राग्भवे त्वं अत्रैव पुरे काष्ठभारहारक २० आसीः । स च मध्याह्ने काष्ठकष्टार्जितधनक्रीतान् सक्तून् उष्णोदकविलोडितान् मासक्षपणिकऋषये मुदा ददे । तेन पुण्येन त्वं
१ छाया-उत्तरतो हिमवान् दक्षिणतः सालिवाहनो राजा ।
समभारभराकान्ता तेन न पर्यस्यते पृथ्वी ॥ २ ग-सालवाहणराया' । ३ ग-'पल्लन्थए' । ४ आर्या । ५ ख-घ-'तादृ' । ६ अनुष्टुप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org