________________
२४८
चतुर्विंशतिप्रबन्धे
[१५ श्रीसातवाहन
अहः कविरूपं भवतु । तथैवं कृतं देव्या । एकस्मिन् दिने दशकोट्यो गाथाः सम्पन्नाः । सातवाहनकशास्त्रं तत्कृतम् । तस्य चोर्वीपतेः खरमुखो नाम दण्डनाथः शूरो भक्तः प्राज्ञः पुण्याढ्य आरम्भसिद्धः। एकदा हालेनादिष्टं खरमुखाय-'मथुरां' लाहि । आदेशः प्रमाणमित्युक्त्वा बहिर्व्यापारिणां पार्श्वमेत्य राजादेशमचीकथत् । व्यापारिभिः प्रोक्तम्-खरमुख ! द्वे 'मथुरे' स्तः । एका 'दक्षिणमथुरा' पाण्डवकृता, अपरा 'पूर्वमथुरा' यद्गोष्ठे कृष्णः समुत्पन्नः यत्र 'वृन्दावना'दीनि वनानि । द्वयोर्मध्यात् का 'मथुरा' ग्राह्येति पृच्छ ।
खरमुखेनोक्तम्-प्रतापमार्तण्डं तं कः प्रष्टुमीष्टे ?। वक्ष्यति हि रे १० मम चेतो न जानीथ ? । तस्य च प्रकोपः सद्यः प्राणहरः । द्वे
अपि 'मथुरे' ग्रहीष्यामः । सैन्यं द्विखण्डं कृत्वा द्वे 'मथुरे' एकस्मिन्नेव मध्याह्ने खरमुखेन जगृहाते । तत्पुरीद्वयग्रहणवर्धापनिकामुखौ द्वौ नरौ आगमताम् । यावत् प्रमोदात् तौ नृपतिरालपति तावत्
तृतीय एक आगात् । स उवाच-देव ! भवत्काराप्यमाणजैनप्रासाद१५ भूमितलेऽक्षयो निधिः प्रादुर्बभूव दिष्टया । यावत् तदभिमुखमीक्षते
तावदेव दासी प्रेममञ्जूषा 'शुद्धान्तादायासीत् – खामिन् ! देव्या चन्द्रलेखया सर्वाङ्गलक्षणः सुतो जातः । चतस्रोऽपि वर्धापनिका दत्ताः क्षमापालेन । तेन प्रमादेनास्य महोन्माद उत्पन्नः ।
ततो मेलयित्वा लोकं हयारूढो गोदावरी'तीरमुपेत्य तां जगाद २० तारतरखरम्
सच्चं भण 'गोदावरि !' पुव्वसमुद्देण साहिया संती । सालाहणकुलसरिसं जइ ते कूले कुलं अस्थि ? ॥१॥
१ ग--'तत्र चोवी०१२ ख- 'सुरमुखो'। ३ ख-'सिद्धिः' । ४ ग-'आयातौ'। ५ अन्तःपुरात् । ६ छाया-सत्यं भण गोदावरि ! पूर्वसमुद्रेण साधिका सती।
सालिवाहनकुलसदृशं यदि ते कूले कुलमस्ति ? ॥ ७ घ-'सीलाहण.' । ८ आर्या ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org