________________
प्रबन्धः
प्रबन्धकोशेत्यपराह्वये रंसनालिहौ; सर्व मयैव कुबुद्धिना विनाशितम् । इति शोचनात् सपरिच्छद एव प्राणत्यागचिकीः पुराद् बहिश्चितामरचयच्चन्दनादिदारुभिः । यावत् क्षणादाशुशुक्षणिं क्षेप्स्यति परिजनश्चितायां तावद् वर्धापक एको देवगणमध्यात् समायासीद् व्यजिज्ञपच्च सप्रश्रयम्- देव ! दिष्टया वर्धसे महादेव्यागमनेन । तन्निशम्य श्रवण- ५ रम्यं नरेश्वरः स्फुरदानन्दकन्दलितहृदय ऊर्ध्वमवलोकयन्नालुलोके नभसि दैवतगणं शूद्रकं च । अयमपि विमानादवार्य राज्ञः पदोरपतत् महादेवी च । अभिननन्द सानन्दं मेदिनीन्दुः शूद्रकम्। राज्याध तस्मै प्रादिशत् । सोत्सवमन्तनगरं प्रविश्य श्रुतशूद्रकचारुचरितः सह महिष्या राज्यश्रियमुपबुभुजे महाभुजः । . ___ तस्य च सातवाहनस्य चन्द्रलेख्याद्याः पञ्च शतानि पन्यः सर्वा अपि षड्भाषाकवित्वविदः । राजा पुनरनधीतव्याकरणः । आगत उष्णकालः । आरब्धा जलकेलिः । चन्द्रलेखा तु शीतालुः शीतं न सहते । नृपस्तु प्रेम्णा शृङ्गकजलैस्तामनवरतं 'सिञ्चति । ततः सा संस्कृतेन प्राह--- देव ! मा मोदकैः पूरय । १५ हालस्तु तत्संस्कृततत्त्वमनवगच्छन् मोदकनाम श्रुत्वा दास्याः पार्थान्मोदकपटलिकामानीनयत् । चन्द्रलेखा तां दृष्ट्वा पतिमतिभ्रमदर्शनादहसीत्-अहो महाराजस्य शास्त्रोत्तेजितमतिव्यापः ! । राज्ञाऽप्युपहासो ज्ञातः । पृष्टा राज्ञी - किमर्थं वयमुपहस्यामहे! । राज्ञी जगाद -अन्यार्थस्थानेऽन्यार्थावबोधाद् हसितोऽसि प्रिय!। २० लजितो राजा। सद्यो विद्यार्थ भारती त्रिरात्रोपवासेनाराध्य प्रत्यक्षीकृत्य तद्वरान्महाकविर्भूत्वा सारस्वतव्याकरणादिशास्त्रशतान्यंचीचरत् । तस्येश्वरस्य गुणकृत्वो भारती देवताऽवसरेऽवतीर्याह । एकदा भारतीमभ्यर्थयत्-सकलमपि पुरं आधयामार्ध
१ श्वानौ । २ अग्निम् । ३ क- 'पर्जन्यः'। 7 घ- 'जनश्च तौ तावद' । ५ क-ख- 'सिञ्चते' । ६ ग- 'श्रम.' । ७ क- 'विद्यावर्ष' । ८ क-घ--'ची कृपत्. ख-'चीपकृत्' । ९ ग-'गण'।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org