________________
चतुर्विंशतिप्रबन्धे । १५ भौसातवाहनरितजिह्रोऽन्तीरं विचरतो जलचरादीन् भक्षयन् वीक्षितस्तैः । पृष्टश्च शूद्रकेण-कस्त्वं किमर्थं चेत्थं लम्बितोऽसि ? । तेनोक्तम्अहं मायासुरस्य कनिष्ठो भ्राता । स च मदनोन्मदिष्णुर्मदग्रजः 'प्रतिष्ठाना'धिपतेः सातवाहनस्य नृपतेर्महिषीं 'रिरंसुरपाहरत् सीतामिव दशवदनः । सा च पतिव्रता तन्नेच्छति । तदनुप्रोक्तोऽग्रजन्मा-न युज्यते परदारापहरणं तव ।
विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिम्सया ।
कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः ॥१॥" इत्यादिवाग्भिनिषिद्धः क्रुद्धो मह्यं मायासुरोऽस्यां वटशाखायां १० टङ्कित्वा मामित्थं व्यडम्बयत् । अहं च प्रसारितरसनः समुद्रान्तः
सञ्चरतो जलचरादीनभ्यवहरन् प्राणयात्रां करोमि । इति श्रुत्वा शूद्रकोऽप्यभाणीत्- अहं तस्यैव महीभृतो भृत्यः शूद्रकनामा तामेव देवीमन्वेष्टुमागतोऽस्मि । तेनोक्तम्- एवं चेत् तर्हि मां मोचय
यथाऽहं सह भूत्वा तं दर्शयामि तां च देवीम् । तेन स्वस्थानं १५ परितो 'जातुषं दुर्ग कारितमस्ति । तच्च निरन्तरं प्रज्वलदेवास्ति।
'ततस्तदुल्लध्य तन्मध्ये प्रविश्य तं निपात्य देवी प्रत्याहर्तव्या । इत्याकर्ण्य शूद्रकस्तेन कृपाणेन तत्काष्ठबन्धनानि छित्त्वा तं पुरोधाय दैवतगणपरिवृतः प्रस्थाय प्राकारमुल्लद्ध्य तत्स्थानान्तः प्राविशत् । दैवतगणांश्वालोक्य मायासुरः स्वसैन्यं युद्धाय प्रजिघाय । तस्मिन् पञ्चतामञ्चिते स्वयं योद्धमुपतस्थौ । ततः क्रमेण शूद्रकस्तेनासिना तमवधीत् । ततो 'घण्टावलम्बि विमानमारोप्य देवी दैवतगणैः सह प्रस्थितः 'प्रतिष्ठानं' प्रति । __इतश्च दशमं दिनमवधीकृतमागतमवगत्य जगत्यधिपतिात
वान्-अहो मम न महादेवी, न च शूद्रकवीरः, न चापि तै। १ क- 'मायामुखस्य' | २ ग- 'वान्छनपाः' । ३ रावणः । ४ अनुष्टुप् । ५ बया, 'टांगीने' इति भाषायाम् । ६ लाक्षामयम् । ७ ग-'ततो दुर्लक्ष्यं तन्मध्ये' । ८ मृत्यु गते । ९ घ- 'तस्थे १० घ- विलम्बि०।११ क-ख-'कृत्यमागत.' १२ घ- 'नापि च तौ'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org