________________
प्रबभ्यः ]
प्रबन्धकोशेत्य पर। हये
भूतादिदेवगणान् सम्मील्य तत्प्रवृत्तिमहं निवेदयिष्यामि, परं तेषां कृते त्वया बल्युपहारादि प्रगुणीकृत्य धार्यम् । यावच्च ते केणेहम्य बल्याद्युपभुज्य प्रीता न भवेयुस्तावत् त्वया विघ्ना रक्षणीयाः । ततः शूद्रको देवतानां तर्पणार्थं कुण्डं विरचय्य होममारेभे । मिलिताः सकलदैवतगणाः । स्वां स्वां मुक्तिमग्निमुखेन जगृहिरे । तावत् तद्धोमधूमः प्रसृमरः प्राप तत्स्थानं यत्र मायासुरोऽभूत् । तेनापि परिज्ञातलक्ष्म्यादिष्टशूद्रकहोमखरूपेण प्रेषितः स्वभ्राता कोल्ला सुरनामा होमप्रत्यूहकरणाय । समागतश्च वियति कोल्लासुरः स्वसेनया समम् । दृष्टस्तदैवतगणैः । चकितं च तैः । ततो arit दिव्यशक्त्या युयुधाते दैत्यैः सह । क्रमान्मारितौ च तौ १० दैत्यैः । तत् शूद्रकः स्वयं योद्धुं प्रावृतत् । क्रमेण दण्डव्यतिरिक्तप्रहरणान्तराभावाद् दण्डेनैव बहून् निधनं नीतवानसुरान् | ततो दक्षिणबाहुं दैत्यास्तस्य चिच्छिदुः । पुनर्वामदोष्णैव दण्डयुद्धमकरोत् । तस्मिन्नपि छिन्ने दक्षिणांहिणोपात्तदण्डो योद्धुं लग्नः । तत्रापि दैत्यैर्लने वामपादात्तयष्टिरयुध्यत । तमपि क्रमादच्छिदन- १५ सुराः । ततो दन्तैर्दण्डमादाय युयुधे । ततस्तैर्मस्तकमच्छेदि । अथ कण्ठतृप्ता दैवतगणास्तं शूद्रकं भूमिपतितशिरस्कं दृष्ट्वा अहोऽस्मद्भुक्तिदातुर्वराकस्य किं जातमिति परितप्य योद्धुं प्रवृत्ताः कोलासुरममारयन् । ततः श्रीदेव्याऽमृतेनाभिषिच्य पुनरनुसंहिताङ्गश्चक्रे शूद्रकः प्रत्युज्जीवितश्च । सारमेयावपि २० पुनर्जीवितौ । देवी च प्रसन्ना सती तस्मै खड्गरत्नं प्रादात् । अनेन स्वमजय्यो भविष्यसीति च वरं व्यतरत् । ततो महालक्ष्म्यादिदैवतगणैः सह सातवाहनदेव्याः शुद्धयर्थं समग्रमपि भुवनं परिभ्रम्य प्राप्तः शूद्रको महार्णवम् । तत्र चैकं वटतरुमुच्चैस्तरं निरीक्ष्य विश्रामार्थमारुरोह यावत् तावत् पश्यति तच्छाखायां लम्बमानमध:- २५ शिरसं काष्ठकीलिकाप्रवेशितोर्ध्वपादं पुरुषमेकम् । स च प्रसा
१ तृप्तिपर्यन्तम् । २ ग - 'दृष्टः स्वदैवत०' । ३ हस्तेन । चतुर्विंशति० १९.
Jain Education International
For Private & Personal Use Only
१४५
www.jainelibrary.org