________________
चतुर्विंशतिप्रबन्धे [१५ श्रीसातवाहनराज्ञा दिनदशकमवधिदत्तः । शूद्रकगृहे च सारमेयद्वयमासीत् तत्सहचारि । नृपतिरवदत्-एतद् भषणयुगलं प्रतिभूप्रायमस्मत्पार्चे मुश्च । स्वयं पुनर्भवान् देव्युदन्तोपलब्धये 'हिण्डतां महीमण्डलम् । सोऽप्यादेशः प्रमाणमित्युदीर्य प्रवीर्यवानुपतस्थे । भूचक्रशकस्तत् कौलेयकद्वन्द्व शृङ्खलाबद्धं शय्यापादयोरबध्नात् । शूद्रकस्तु परितः पर्यटत् । अट्यमानोऽपि यावत् प्रस्तुतार्थस्य वार्तामात्रमपि क्वापि नोपलेभे तावदचिन्तयत्-- अहो ममेदमयशः प्रादुरभूद् यदयं स्वामिद्रोही भूत्वा देवीमपाजीहरदिति । न च कापि
शुद्धिर्लब्धा तस्याः । तस्मान्मरणमेव मम शरणम् । इति विमृश्य १० दारुभिश्चितामरचयत् । “ज्वलनं चाज्वालयत् । यावन्मध्यं
प्राविशत् तावत् ताभ्यां शुनकाभ्यां देवताधिष्ठिताभ्यां ज्ञातं यदस्मदधिपतिनिधनं वाञ्छन्नस्तीति । ततो दैवतशक्त्या शृङ्खलानि भङ्क्त्वा निर्विलम्बौ गतौ तौ तत्र यत्रासीच्छ्रद्रकरचिता चिता । दशनैः
केशानाकृष्य शूद्रकं बहिर्निष्कासयामासतुः । तेनापि अक१५ स्मात् तौ विलोक्य विस्मितमनसा निजगदे रे पापीयांसौ ! किमेतत्
कृतं भवद्भ्यामशुभवद्भयाम् ? । राज्ञा मनसि विश्वासनिरासो भविष्यति यत् प्रतिभुवावपि तेनात्मना सह 'नीतौ । भषणाभ्यां बभाषे- धीरो भव। अस्मदर्शितां दिशमनुसर सरभसम्। का
चिन्ता तव ? । इत्यभिधाय पुरोभूय प्रस्थितौ तेन सार्धम् । क्रमात् २० प्राप्तौ 'कोल्लापुर'म् । तत्रस्थं महालक्ष्मीदेव्या भवनं प्रविष्टौ । तत्र
शूद्रकस्तां देवीमभ्यर्च्य कुशसंस्तरासीनस्त्रिरात्रमुपावसत् । तदनु प्रत्यक्षीभूय भगवती महालक्ष्मीस्तमवोचत्-वत्स! किं मृगयसे । शुद्रकेणोक्तम्-स्वामिनि ! सातवाहनमहीपालमहिष्याः शुद्धिं वद । कास्ते केनेयमपहृताः ? । श्रीदेव्योदितम्-सर्वान् यक्ष-राक्षस
१ श्वयुग्मम् । २ घ-'मस्मत्पार्श्व । ३ गच्छतु। ग-'वान् प्रतस्थे । ५ श्वयुगलम् । ६ ग- 'पादेऽबध्नीत्। ७ अमिम् । ८ ख-घ--'प्रविशत्' । १ ख- घ- 'धनायनस्तीति'। १० घ-नीतावप्ति (१)'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org