________________
प्रबन्धः] प्रबन्धकोशेत्यपराह्वये तितुम्वरौ मधुरस्वरं गायति सति श्रुतं तत्स्वरूपं महादेव्या दासीमुखेन । भूपं विज्ञाप्य तच्छीर्ष स्वान्तिकमानायितम् । प्रत्यहं तमजीगपत् राज्ञी । दिनान्तरे रात्रौ प्रस्तावमासाद्य सद्य एवापहरति स्म तां मायासुरः। आरोपयामास च तां 'घण्टावलम्बि'नामनि स्वविमाने । राज्ञी च करुणं क्रन्दितुमारेभे--- हाऽहं ५ केनाप्यपहिये । अस्ति कोऽपि वीरः पृथिव्यां यो मां मोचयति ? । तच खून्दलाभिख्येन वीरेण श्रुत्वा व्योमन्युत्पत्य च तद्विमानस्य घण्टा पाणिना गाढमधार्यत । ततस्तत्पाणिनाऽवष्टब्धं विमानं पुरस्तान प्राचालीत् । तदनु चिन्तितं मायासुरेण ---किमर्थ विमानमेतन्न सर्पति ? । यावदद्राक्षीत् तं वीरं हस्तावलम्बितघण्टम् । १० ततः खड्गेन तद्धस्तमाच्छिदत् । पतितः पृथिव्यां वीरः । स चासुरः पुरः प्राचलत् । ततो विदितदेव्यपहारवृत्तान्तः क्षितिकान्तः पञ्चाशतमेकोनां वीरानादिशद् यत् पट्टदेव्याः शुद्धिः क्रियतां केनेयमपहृतेति । ते प्रागपि शूद्रकं प्रत्यसूयापराः प्रोचुः----महाराज! शूद्रक एव जानीते। तेनैव तच्छीर्षकमानीतम् । तेनैव दैवी जहे । १५ ततो नृपतिस्तस्मै कुपितः शूलारोपणमाज्ञापयत् । तदनु देशरीतिवशात् तं रक्तचन्दनानुलिप्ताङ्गं शकटे शाययित्वा तेन सह गाढं बद्ध्वा शूलाय यावद् राजपुरुषाश्चेलः तावत् पश्चाशदपि वीराः सम्भूय शूद्रकमवोचन्– भो महावीर ! किमर्थ रऐडेव म्रियते भवान् । अशुभस्य कालहरणमिति न्यायात् मार्गय नरेन्द्रात् कतिपय- २० दिनावधिम् । शोधय सर्वत्र देव्यपहारिणम् । किमकाण्डे एव स्वकीयां वीरत्वकीर्तिमपनयसि । तेनोक्तम्-गम्यतां तर्हि उपराजम् । विज्ञाप्यतामेनमर्थ राजा । तैरपि तथाकृते प्रत्यानायितः शूद्रका क्षितीन्द्रेण । तेनापि स्वमुखेन विज्ञप्तिः कृता-- महाराज ! दीयतामवधिः येन विचिनोमि प्रतिदिशं देवीं तदपहरिणं च । २५
१ ख- 'घण्टाविलम्बि.'। २ ख- 'लंबूदलाभिख्यखून्दला.'। ३ घ'विलम्बित०' । ख- 'प्रचालीत'। ५ 'रोडीरांड' इति भाषायाम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org