________________
१४२
चतुर्विशतिप्रबन्धे [१५ श्रीसातवाहनकेनापि यादसा विधृतोऽयं भवोदित्याशक्य सघः कृपाणिकामधो वाहयामास शूद्रकः । तदनु शिरोमात्रमेव शूद्रकस्योद्धर्तुः करतलमारोहत् । लघुतया शिरः प्रक्षरगुधिरधारमवलोक्य शूद्रको विषादमापनश्चिन्तयति स्म-- धिग् मामप्रहर्तरि प्रहारं शरणागतघातकं च । इत्यात्मानं निन्दन् वजाहत इव क्षणं मूञ्छितस्तस्थौ । तदनु समधिगतचैतन्यश्चिरमचिन्तयत्-- कथमिवैतत्सुदुश्चेष्टितमवनिपतये निवेदयिष्यामि ? । इति लज्जितमनास्तत्रैव काष्ठश्चितां विरचय्य तत्र ज्वलनं प्रज्वाल्य तच्छिरः सह गृहीत्वा
यावदुदर्चिषि प्रवेष्टुं प्रववृत्ते तावत् तेन मस्तकेन निजगदे-भो १० महापुरुष ! किमर्थमित्थं करोषि ? । अहं शिरोमात्रमेवास्मि सिंहिके
यवत् सदा । तद् वृथा मा विषीद । प्रसीद मां राज्ञः समीपमुपनय इति तद्वचनं निशम्य चमत्कृतचित्तः 'प्राणित्ययमिति प्रहृष्टः
द्रकस्तच्छिरः पट्टांशुकवेष्टितं विधाय प्रातः सातवाहनमुपागमत् । अपृच्छत् पृथिवीनाथः-शूद्रक ! किमिदम् ? । सोऽप्यवोचत् देव ! सोऽयं यस्य क्रन्दितध्वनिर्देवेन रात्रौ शुश्रुवे । इत्युक्त्वा तस्य प्रागुक्तं वृत्तं सकलमावेदयत् । पुना राजा तमेव मस्तकमप्राक्षीत्कस्त्वं भो किमर्थं चात्र भवदागमनमिति ? । तेनाभिदधे–महाराज ! भवतः कीर्तिमुभाकार्णि(?) समाकर्ण्य करुणरुदितव्याजेनात्मानं ज्ञाप
यित्वा त्वामहमुपागमम् । दृष्टश्च भवान्। कृतार्थे मेऽद्य चक्षुषी जाते २० इति । कां कलां सम्यगवगच्छसीति राज्ञ आज्ञया निरवगीतं
गातुं प्रचक्रमे । क्रमेण तद्गानकलया मोहिता सकलाऽपि नृपतिप्रमुखा परिषद् । स च मायासुरनामकोऽसुरस्तां मायां निर्माय महीपतेर्महिषीं महनीयरूपधेयामपजिहीर्घरुपागतो बभूव । न च
विदितचरमेतत् कस्यापि । लोकैस्तु शीर्षमात्रदर्शनात् तस्य प्राकृत२५ भाषया सीसुला इति व्यपदेशः कृतः । तदनु प्रतिदिनं तस्मिन्न
१ ग- 'प्रज्वाल्येतच्छिर:' । २ ख- 'व्यवसीयते भवता यावदहं शिरो.' ३ ग- 'राहुवत्' । ' जीवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org