________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये
प्रहतवान्, यथा सा त्रिखण्डमन्वभूत् । तत्रैकं शकलं योजनत्रयोपरि न्यपतत्, द्वैतीयकं च खण्डं नागहदे, तृतीयं तु प्रतोलीद्वारे चतुष्पथमध्ये निपतितमद्यापि तथैव 'वीक्ष्यमाणमास्ते जनैः । तद्बलविलसितचमत्कृतचेताः क्षोणिनेता शूद्रकं सुतरां सत्कृत्य पुररक्षकमकरोत् । शस्त्रान्तराणि प्रतिषिध्य दण्डधारस्तस्य दण्डमेवायुधमन्वज्ञासीत् । शूद्रको बहिश्वरान् वीरान् पुरमध्ये प्रवेष्टुमपि न दत्तवान्, अनर्थनिवारणार्थम् ।
अन्यदा वसौधस्योपरितले शयानः सातवाहनक्षितिपतिर्मध्यरात्रे शरीर चिन्तार्थमुत्थितः । पुराद् बहिः परिसरे करुणं रुदितमाकर्ण्य तत्प्रवृत्तिमुपलब्धुं कृपाणपाणिः परदुःखदुःखितहृदयतया १० गृहान्निरंगमत् । अन्तराले शूद्रकेणावलोक्य सप्रश्रयं प्रणतः पृष्टश्व महानिशायां निर्गमनकारणम् । धरणीपतिरवदद् यदयं बहि: पुरपरिसरे करुणक्रन्दितध्वनिः श्रवणाध्वनि पथिकभावमनुभवन्नस्ति तत्कारणप्रवृत्तिं ज्ञातुं व्रजन्नस्मि । इति राज्ञोते शूद्रको व्यजिज्ञपत्-- देव ! प्रतीक्ष्यपादैः स्वसौधालङ्क- १५ रणाय पादोऽवधार्यताम् । अहमेव तत्प्रवृत्तिमानेष्यामि । इत्यभिधाय वसुधानायकं व्यावर्त्य स्वयं रुदितध्वन्यनुसारेण पुराद् बहिर्गन्तुं प्रवृत्तः । पुरस्ताद् व्रजन् दत्तकर्णो ' गोदावर्याः ' स्रोतसि कञ्चन रुदन्तमश्रौषीत् । ततः परिकरबन्धं विधाय शूद्रकस्ती यावत् सरितो मध्यं प्रयाति तावत् पयःपूरप्लाव्य- २० मानं नरमेकं रुदन्तं वीक्ष्य बभाषे -- भो कस्त्वम् ? किमर्थं च रोदिषि ? । इत्यभिहितः स नितरामरुदत् । इति निर्बन्धेन पुनः स्पष्टमाचष्ट- भो साहसिकशिरोमणे ! मामितो निष्कास्य भूपतेः समीपं प्रापय येन तत्र स्ववृत्तमाचक्षे । इत्युक्तः शूद्रकस्तमुत्पाटयितुं यावदयतिष्ट तावन्नोत्पटति स्म सः । ततोऽधस्तात् २५
१
क - ' वक्ष्यमाण ० ' । २ ख- न चेत् शूद्रको' । ३ घ -- 'दुस्थित हृदय • ' ४ ग - 'रगात्' । ५ पूज्यपादैः । ६ ग - 'अहमपि प्रवृत्ति ० ' ।
Jain Education International
१४१
For Private & Personal Use Only
www.jainelibrary.org