________________
१४० ____ चतुर्विंशतिप्रबन्धे [१५ श्रीसातवाहन
सातवाहनो राज्येऽभिषिक्तः । 'प्रतिष्ठान' च निजनिजविभूतिपरिभूतवस्त्वौकसाराभिधानं धवलगृह-देवगृह-हट्टपङ्क्ति-राजपथप्राकार-परिखादिभिः सुनिविष्टमजनिष्ट पत्तनम् । सातवाहनोऽपि
क्रमेण दक्षिणापथमनृणं विधाय 'तापी'तीरपर्यन्तं चोत्तरापथ ५ साधयित्वा स्वकीयसंवत्सरं प्रावीवृतत् । जैनश्च समजनि । अचीकरच
जनितजननयनशैत्यानि चैत्यानि पञ्चाशद् वीरा अपि । प्रत्येक स्वस्वनामाङ्कितानि अन्तर्नगरं कारयाम्बभूवुर्जिनभवनानि । परसमयलोकप्रसिद्ध सातवाहनचरित्रं शेषमपि किञ्चिदुच्यते--
श्रीसातवाहने क्षितिरक्षति सति पञ्चाशद् वीराः 'प्रतिष्ठान'१० नगरान्तस्तदा वसन्ति स्म, पञ्चाशन्नगराद् बहिः । इतश्च तत्रैव
पुरे एकस्य द्विजस्य सूनुर्दोद्धरः शूद्रकाख्यः समजनि । स च युद्धश्रमं दर्पात् कुर्वाणः पित्रा स्वकुलानुचितमिदमिति प्रतिषिद्धोऽपि नास्थात्, । अन्येद्युः सातवाहननृपतिर्बापलावन्दलादिपुरान्तर्वर्तिवीरपञ्चाशदन्वितो द्विपञ्चाशद्धस्तप्रमाणां शिलां श्रमार्थमुत्पाटयन् दृष्टः पित्रा समं गच्छता द्वादशाब्ददेशीयेन शूद्रकेण । केनापि वीरेणाङ्गुलोचतुष्टयं केनचित् षडङ्गुलान्यपरेण त्वगुलान्यष्टौ शिला भूमित उत्पाटिता, महीजानिना त्वाजानु नीता । इल्यवलोक्य शूद्रकः स्फूर्जदूर्जितमवादीत् । भो भो भवत्सु मध्ये किं शिलामिमां मस्तकं यावन्न कश्चिदुद्धर्तुमीष्टे ? । तेऽपि 'सेर्ण्यमवादिषुर्यथा- त्वमेवोत्पाट्य यदि समर्थमन्योऽसि । शूद्रकस्तदाकर्ण्य तां शिलां वियति तथोच्छालयाञ्चकार, यथा दूरमूर्ध्वमगमत् । पुनरवादि शूद्रकेण- यो भवत्सु अलम्भूष्णुः स खलु इमां निपतन्तीं स्तभ्नातु । सातवाहनादिवीरैर्भयाद् भ्रान्तलोचनैरूचे
स एव सानुनयम्- यथा भो महाबल ! रक्ष रक्ष अस्माकी२५ नान् प्राणान् इति । स पुनस्तां पतयालु तथा मुष्टिप्रहारेण
१ घ-'पदनम्। २ क-'खुन्देलादि.', घ. 'खुदलादि०' । ग-'मही. पतिना'| ग-दुद्धर्तु समर्थः। ५ ख-'तदर्थमवा०। ६ क-ख-'अलकरिष्णुः' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org