________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये
तदवलोक्य ते ग्रामात्रस्ताश्चिन्तयन्ति स्म - - कस्योपरि अयमेतावानाटेापः सकोपस्य 'मालवे' शस्य ? । न तावदत्र राजा राजन्यो वा वीरस्तादृग् दुर्गादि वा । इति चिन्तयत्सु तेषु ' मालवे'शप्रहितो दूतः समेत्य सातवाहनमवोचत् - भो कुमारक ! तुभ्यं नृपः कुद्धः प्रातस्त्वां मारयिष्यति । अतो युद्धाद्युपायचिन्त- ५ नावहितेन भवता भाव्यमिति । स च श्रुत्वाऽपि दूतोक्तर्निर्भयं निरन्तरं क्रीडने वास्ते ।
अत्रान्तरे विदितपरमार्थौ तौ तन्मातुलावितरेतरं प्रति विगतदुर्विकल्प पुनः ' प्रतिष्ठान' मागतौ । परचक्रं दृष्ट्वा तां स्वभगिनीं प्रोचतुः - हे स्वसर्येन दिवौकसा तवायं तनयो दत्तस्तमेव स्मर १० यथा स एवास्य साहाय्यकं विधत्ते । साऽपि तद्वचसा प्राचीनं 1 नागपतेर्वचः [: स्मृत्वा शिरसि निवेशितघटा 'गोदावर्या' नागहदं गत्वा स्नात्वा च तमेव नागनायकमाराधयत् । तत्क्षणान्नागराजः प्रत्यक्षीभूय वाचमुवाच- ब्राह्मणि ! को हेतुरहमनुस्मृतस्त्वया ? | तया च प्रणम्य यथावस्थितमभिहिते बभाषे शेषराज :- मयि १५ पढ्यौ कस्तव तनयमभिभवितुं क्षम: ? । इत्युदीर्य तद्घटमादाय हृदान्ते निमज्ज्य पीयूषकुण्डात् सुधया घटं प्रपूर्य च तस्यै दत्तः । त्वं चानेनामृतेन सातवाहन कृतमृन्मयाश्व-रथ- गज-पदातिजातमभिषिचेः, यथा तत्सजीवं भूत्वा परबलं भुनक्ति । त्वत्पुत्रं च 'प्रतिष्ठान' पत्तन राज्ये अयमेव पीयूषघटोऽभिषेकयिष्यति । प्रस्तावे २० पुनः स्मरणीयोऽहम् । इत्युक्त्वा स्वास्पदमगमद् भुजङ्गपुङ्गवः । साऽपि सुधाघटमादाय स्वसद्मोपेत्य तेन तन्मृन्मयं सैन्यमदैन्यमभ्युक्षामास। प्रातर्दिव्यानुभवतः सचेतनीभूय तत्सैन्यसम्मुखं गत्वा युयुधे परानीकिन्या सार्धम् । तया सातवाहनपृतनया भग्न' भवन्ती'शितुर्बलम् । विक्रमनरपतिरपि पलाय्य यथा 'ववन्ती' म् । तदनु २५
१३९
१ ख- घ - ' दूतोक्तीर्निरन्तरं ' । २ ख -- 'प्रतिपतिकस्तव,' घ- 'प्रतपतिकस्तव' । ३ ख - 'सद्यो पित्पतेन तन्० ' । ४
सैन्येन |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org