________________
१३८
चतुर्विंशतिप्रबन्धे [१५ श्रीसातवाहनतैस्तु जगदे--जगदेकसुभग ! कथमिव वयं चिन्ताचान्तचेतसस्त्वया ज्ञाताः ? । कुमारेण बभणे-इङ्गितैः किमिव नावगम्यते ! । तैरुक्तम्-युक्तमेतत् , परं भवतः पुरो निवेदितेन चिन्ताहेतुना किं स्यात् । बालः खलु भवान् । बाल आलपत्यदि परं जातु मत्तोऽपि साध्यं वः सिध्यति, तन्निवेद्यतां स चिन्ताहेतुः । ततस्ते तद्वचनवैचित्र्यहृतहृदयाः सकलमपि स्वस्वरूपं 'निधिनिरयणादि । मालवे'शपरिषद्यपि विवादानिर्णयान्तं तस्मै निवेदितवन्तः । कुमारस्तु स्मितविच्छुरिताधरोऽवादीद्--
भो विप्राः ! अहं यौष्माकं झंगटकं निर्णयामि, श्रूयतामवहितैः-- १० यस्मै वप्ता कनककलशं प्रददे स तेनैव निवृत्तोऽस्तु । यस्य
कलशे कृष्णमृत्स्ना निरगात् स क्षेत्रकेदारादीन् गृह्णातु । यस्य तु बुशं स कोष्ठागारगतधान्यानि सर्वाण्यपि स्वीकुरुताम् । यस्य चास्थीनि निरगुः सोऽश्व-महिषीदासी-दासादिकमुपादत्ताम् ।
इति युष्मज्जनकस्याशयः । इति क्षीरकण्ठोक्तं श्रुत्वा सूत्रकण्ठाः १५ छिन्नविवादाः तद्वचनं प्रतिश्रुत्य तमनुज्ञाप्य प्रत्याययुः स्वां
नगरीम् । प्रथिता सा तद्विवादनिर्णयकथा पुर्याम् । राज्ञाऽप्याकार्य ते पर्यनुयुक्ताः- किं नु भो भवतां वादनिर्णयो जातः ? । तैरुक्तम्-- ओम् स्वामिन् ! । केन निर्णीत इति नृपेणोदिते ते
सातवाहनस्वरूपं सर्वमवितथमकथयत् । तदाकर्ण्य तस्य शिशो२० रपि बुद्धिवैभवं विभाव्य प्रागुक्तं दैवज्ञेन तस्य प्रतिष्ठाने ' राज्य
च भविष्यतीत्यनुस्मृत्य तं स्वप्रतिपन्थिनमाकलय्य क्षुभितमनास्तन्मारणोपायमचिन्तयच्चिरं नरेश्वरः । अभिघातकरादिप्रयोगैर्मारिते चास्मिन्नयशःक्षात्रवृत्तिक्षती जायेतामिति विचार्य सन्नद्धचतुरङ्गचमूसमूहो'ऽवन्ति'पतिः प्रस्थाय 'प्रतिष्ठान'पत्तनं यथेष्टमवेष्टयत् ।
१ घ. 'तसंस्तयाऽज्ञासिष्महि । २ घ-वरं'। ३ ख-- 'निधिनिर्गमनादि' । । 'झगडो' इति भाषायाम् । ५ क-'महिषीवृषदासी.' । ६ बालेन । ७ विप्राः । ८ ख'अभिघातकमीद.', घ-'अभिमरघातकरादि' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org