________________
११७
प्रबन्धः ] प्रबन्धकोशेत्यपराह्वये समभावी बालक्रीडया स्वयं भूपतीभूय तेभ्यो वाहनानि करिदुरग-रथादीनि कृत्रिमाणि दत्तवान् । इति सनोतेदानार्थत्वाल्लोकैः सातवाहन इति व्यपदेशं लम्भितः । स्वजनन्या पाल्यमानः सुखमवस्थितः ।
इत श्चोजयिन्यां' श्रीविक्रमादित्यस्या ऽवन्ति'नरेशितुः सदसि ५ कश्चिन्नैमित्तिकः सातवाहनं 'प्रतिष्ठान'पुरे भाविनं नरेन्द्रमादिशत् ।
अर्थतस्यामैव पुर्यामेकः स्थविरविप्रः स्वायुरवसानमवसाय चतुरः स्वतनयानाहूय प्रोक्तवान् , यथा ----वत्सा ! मयि पुरेयुषि मदीयशय्योच्छीर्षकदक्षिणपादारभ्य चतुर्णामपि पादानामधो वर्तमानं निधिकलशचतुष्टयं युष्माभिर्यथाज्येष्ठं विभज्य ग्राह्य येन भवतां १० निर्वाहः सम्पनीपद्यते । पुत्रैस्तु तथेत्यादेशः स्वीचक्रे पितुः । तस्मिन्नुपरते तस्यौव॑दैहिकं कृत्वा त्रयोदशेऽहनि भुवं खनित्वा यथायथं चतुरोऽपि निधिकलशास्ते जग्रहिरे । यावदुद्घाट्य विलोकयन्ति तावत् प्रथमस्य कुम्भे कनकम्, द्वैतेयीकस्य कृष्णमृत्स्ना, तृतीयस्य बुशम् , तुरीयस्य त्वस्थीनि ददृशिरे । तदनु १५ ज्यायसा साकमितरे त्रयो विवदन्ते स्म-तदस्मभ्यमपि विभज्य कनकं वितरेति । तस्मिंश्चावितरति सति ते ऽवन्ति'पतेर्द्धर्माधिकारिणमुपास्थिषत । तत्रापि न तेषां वादनिर्णयः समपादि । ततश्चत्वारोऽपि 'महाराष्ट्र 'जनपदमुपानसिषुः । सातवाहनकुमारस्तु कुलालमृदा हस्तिरथसुभटानन्वहं नवनवान् विदधानः कुलालशालायां २० बालक्रीडादुर्ललितकलितस्थितिरनयत् समयम् । ते च द्विजतनुजाः 'प्रतिष्ठान पत्तनमुपेत्य परतो भ्रमन्तस्तस्यामेव चक्रजीविनः शालायां तस्थिवांसः । सातवाहनस्तु तानवेक्ष्यङ्गिताकारकुशलः प्रोवाच-भो विप्राः ! किं भवन्तो वीक्षापन्ना इव वीक्ष्यन्ते ।
१ ग--'सानं ज्ञात्वा'। २ ग-'मयि मृते मदीय' । ३ घ-'खात्वा' । ग'बुशाम्'। ५ घ-'नः कलित०।६ ख-'मेत्य' । ७ कुलालस्य । ८ ख-वीतापमा'। चर्विशति..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org