SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [१५ श्रीसातवाहन ॥ अथ सातवाहनप्रबन्धः॥ इह 'भारते' वर्षे दक्षिणखण्डे 'महाराष्ट्र'देशावतंसं श्रीमत् प्रतिधान' नाम पत्तनं विद्यते । तच्च निजभूत्याऽभिभूतपुरन्दरपुरमपि ५ कालान्तरण क्षुल्लकग्रामप्रायमजनिष्ट । तत्र चैकदा द्वौ वैदेशिकद्विजो समागल्य विधवया स्वस्रा साकं कस्यचित् कुम्भकारस्य शालायां तस्थिवांसौ । कणवृत्तिं विधाय कणान् स्वसुरुपनीय तत्कृताहारपाकेन समया कुरुतः स्म । अन्येयुः सा तयोर्विप्रयोः स्वसा जलाहरणाय 'गोदावरी' गता। १० तस्याः स्वरूपमप्रतिरूपं निरूप्य स्मरपरवशोऽन्तर्हदवासी शेषो नाम नागराजो हृदानिर्गत्य विहितमनुष्यवपुस्तया सह बलादपि सम्भोगकेलिमकलयत् । भवितव्यताविलसितेन तस्याः सप्तधातुरहितस्यापि तस्य दिव्यशक्त्या शुक्रपुद्गलसञ्चाराद् गर्भाधान मभवत् । 'स्वनामधेयं प्रकाश्य न्यसनसङ्कटे मां स्मरेरित्यभिधाय १५ च नागराजः 'पाताल लोकमगमत् । सा च गृहं प्रत्यगच्छत् । व्रीडापीडिततया च स्वभ्रात्रोस्तं वृत्तान्तं न खलु न्यवेदयत् । कालक्रमेण सहोदराभ्यां गर्भलिङ्गानि वीक्ष्य सा जातगर्भा इत्यलक्ष्यत । ज्यायसस्तु मनसि शङ्का जाता यदियं खलु कनीयसोपभुक्तति, शङ्कनीयान्तराभावात् । 'यवीयसोऽपि समजनि विकल्पः नूनमेषा ज्यायसा सह विनष्टशीलेति । एवं मिथः कलुषिताशयौ विहाय तामेकाकिनी पृथक् पृथक् देशान्तरमयासिष्ठाम् । साऽपि प्रवर्धमानगर्भा परमन्दिरेषु कर्माणि निर्मिमाणा प्राणवृत्तिमकरोत् । क्रमेण पूर्णेऽनेहसि सर्वलक्षणलक्षिताङ्गं प्रासूत मतम् । स च क्रमाद् वपुषा गुणैश्च वर्धमानः सवयोभिः सह २० १ च-तस्याश्च रूप० । २ ख-स्वं नाम'। ३ घ-'भ्रात्रोक्तं स्वं वृत्तान्त' । • कनीयसः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy