________________
प्रबन्धः
प्रबन्धकोशेत्यपराये
शति- शठोत्तरमेवेदं दृश्यते । एकदा 'हेरयामि किमिमौ समाचरतः। निशायां विभातायां एकदा राजा छन्नरूप एकाकी तयोर्ग्रन्थनिष्पत्तिप्रदेशकुड्यान्तरेऽस्थात् । तदैव दिग्पटो राजपुत्री प्रति प्रणयकलहानुनयगर्भमाह
सुभ्र ! त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां ५ ___ दूरादेव निराकृताः सुरभयः स्वर्गन्धधूपादयः । रागं रागिणि ! मुश्च मय्यवनते दृष्टे प्रसीदाधुना ___ सत्यं त्वद्विरहे भवन्ति दयिते ! सर्वा ममान्धा दिशः॥१॥' एतत्काव्यश्रवणाद् द्वयोर्दो शील्यं निर्णीय मन्दपदं निर्ययो । स्थानं गतो वसुधाधिपः । क्रुद्धेन तेन तत्कालमाहूतो दिक्पटः; १० आगतो भाषितः, यथा- पण्डित ! किमिदं नवीनं पद्यम्- 'सुभ्र ! त्वं कुपितेत्यपास्तमशनम्' इत्यादि ? । दिग्वसनेन विमृष्टम् - राज्ञा हेरितोऽहम् । अपराधी लब्धः । तथाप्युत्तरं ददामि यथातथा । इति चिन्तयित्वाऽवनिपतिमभ्यधात्-- देव ! दिनद्वयात् प्रभृति दृग् मे पीडाऽऽर्ता वर्तते । तदुपश्लोकायानुनयपरं पद्यमिदमपाठि- १५ षम् । इति प्रस्तावनां कृत्वा निक्षोभस्तयैव भङ्ग्या सद्यो व्याचचक्षे । तया प्रैज्ञया तुष्टोऽन्तः क्षितिपः, अकृत्यकरणदर्शनात् तु रुष्टः । सभ्रूभङ्ग भृत्यानूचे- बध्नीत रे अमुं कुकर्मकारिणं घातयत छ । बद्धस्तैः । तदाकर्ण्य राजपुत्री द्वात्रिंशता सखीभिः शस्त्रिकापाणिभिः समं आगात् । राजदृष्टिमेत्य स्वयमकथयत्- यद्यमुं २० मे मनोरच्यं मुञ्चसे तदा चारु; अथ न मुञ्चसे तदा चतुस्त्रिंशद्धत्या भवितारः- एका दिगम्बरहत्या त्रयस्त्रिंशद्युवतिहत्या इति । ततो राजा मन्त्रिभिर्विज्ञप्तः- देव ! त्वयैवेयमस्यासन्नीकृता । यूनां स्त्रीसन्निधानं च मन्मथद्रुमदोहदः । कस्य दोषो दीयते ।
चित्रस्था अपि चेतांसि, हरन्ति हरिणीदृशः ।
किं पुनस्ताः स्मरस्मेर-विभ्रमभ्रमितेक्षणाः ! ॥१॥ १ चररूपेण पश्यामि (१। २ शार्दूल। ३ बघ- सूक्या' । घ-पाणिरागात् । '५ अनुष्टुप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org