SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३२ चतुर्विंशतिप्रबन्धे [१४ श्रीमदनकीर्तिचमत्कृतो राजा । स्थापितो दिगम्बरः सौधासन्नदेशे । राज्ञाऽsदिष्टम् - ग्रन्थमेकं कुरु अस्मत्पूर्वजवर्णनप्रतिबद्धम् । तेनोक्तम्देव ! अहं श्लोकपञ्चशती एकस्मिन् दिने कर्तु क्षमः, तावत् तु लेखितुं न क्षमोऽस्मि । कश्चिल्लेखकः समर्प्यताम् । राज्ञोक्तम्-अस्मत्पुत्री मदनमञ्जरी नाम लिखिष्यति जवनिकाऽन्तरिता सती । दिगम्बरेण ग्रन्थं कर्तुमारेभे । राजपुत्री पञ्चशती लिखति । एवं कत्यप्यहानि ययुः । एकदा राजसुता तस्य स्वरं कोकिलरवजित्वरं शण्वती सती चिन्तयति- अस्य रूपमपि सुन्दरं भविष्यति । जवनिकाऽन्तरि१० तया कथं दृश्यते ? । करोमि तावदुपायम् । रसवत्यां लवणबाहुल्यं कारयामि । 'सोऽपि राजपुत्री तादृग्विदुषीं सुस्वरां दिदृक्षते । लवणातिशये दिग्पट ऊचे- अहो लवणिमा!। राजपुत्र्यभिदधेअहो निष्ठुरता ।। एवमालापप्रत्यालापे दूरे कृता उभाभ्यां मर्यादामयी वस्त्रमयी च जवनिका । परस्परं दिव्यरूपदर्शनम् । तावता दिग्१५ वस्त्रेणोक्तम् निरर्थकं जन्मगतं नलिन्या, यया न दृष्टं तुहिनांशुबिम्बम् । राजसुतयाऽपि भणितम्--- उत्पत्तिरिन्दोरपि निष्फलैव, दृष्टा प्रबुद्धा नलिनी न येन ॥१॥ ततश्चक्षुः प्रीतिमुद्भवन्तीवाऽपराणि कुसुमचापचापलानीति २० वचनान्निरर्गले मदने भग्नं कौमारव्रतं तयोः । वर्तते विकथा । अल्पो निष्पद्यते ग्रन्थः । सायं राजा विलोकयति शास्त्रम् । को हेतुरथ स्तोकं निष्पन्नम् ? । दिगम्बरस्तेषु त्रिचतुराणि विषमाणि पद्यानि निक्षिपते । ततो राजाऽने भणति- देव ! ममेयं प्रतिज्ञा-अहमबुध्यमान स्य लेखितुः पार्थान्न लेखयामि । तव तु पुत्र्या इदं स्थानं कृच्छ्रेण २५ बुद्धम् । इति कालविलम्बाद् ग्रन्थाल्पत्वं जायते । राजेन्द्रो विमृ १ घ-'करोम्युपायं तावत्' । २ ग-'सोऽपि दिग्वस्त्रः राज.'। ३ लवणस्य भावः, पक्षान्तरे लावण्यम् । । चन्द्रबिम्बम् । ५ क-'दृष्ट्वा' । ६ उपजातिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy