________________
प्रबन्धकोशेस्यपराह्वये
[१४]
॥ अथ मदनकीर्तप्रबन्धः ॥ 'उज्जयिन्यां' विशालकीर्तिदिगम्बरः । तच्छिष्यो मदनकीर्तिः । स पूर्वपश्चिमोत्तरासु तिसृषु दिक्षु वादिनः सर्वान् विजिल्ल 'महाप्रामाणिकचूडामाण'रिति बिरुदमुपाय॑ स्वगुर्वलकृता 'मुज्ज- ५ यिनी'मागात् । गुरूनवन्दिष्ट । पूर्वमपि जनपरम्पराश्रुततत्कीर्तिः स मदनकीर्तिः भूयिष्ठमश्लाघिष्ट । सोऽपि प्रामोदिष्ट । दिनकतिपयानन्तरं च गुरुं न्यगादीत्- भगवन् ! दाक्षिण्यात्यान् वादिनो विजेतुमीहे । तत्र गच्छामि ? । अनुज्ञा दीयताम् । गुरुणोक्तम्-- वत्स ! दक्षिणां मा गाः । स हि भोगनिधिर्देशः । को नाम तत्र १० गतो दर्शन्यपि न तपसो भ्रश्येत् ? । तद् गुरुवचनं विलय विद्यामदामातो जालकुद्दालनिश्रेण्यादिभिः प्रभूतैश्च शिष्यैः परिकरितो 'महाराष्ट्रा' दिवादिनो मृद्नन् ‘कर्णाट'देशमाप । तत्र 'विजयपुरे' कुन्तिभोज नाम राजानं स्वयं त्रैविद्यविदं विद्वत्प्रियं सदसि निषष्णं स द्वास्थनिवेदितो ददर्श तमुपश्लोकयामास
देव ! त्वद्भुजदण्डदर्पगरिमाद्गारप्रतापानल___ ज्वालापकिनमकीर्तिपारदघटीविस्फोटिनो बिन्दवः । शेषाहिः कति तारकाः कति कति क्षीराम्बुधिः कत्यपि
पालेयाचल-शङ्ख-शुक्ति-करका-कर्पूर-कुन्देन्दवः ॥१॥ कीर्तिः कैः कति कुन्तिभोज! भवतः स्वाहिनीगाहिनी २०
दिक्पालान् परितः परीत्य दधती भास्वन्मयं गोलकम् । लचित्वाऽम्बुधिसप्तमण्डलभुवस्स्वय्येकपत्नीव्रत
स्यात्यै विष्णुपदं स्पृशत्यविरतं शेषाहिशीर्षाण्यपि ॥२॥ १ घ-'परम्पराछूत०' । २ तत्त्वज्ञानी। ३ हिमालयगिरिः । ४ शार्दूल । ५ क्षारोदक-इक्षुरसोदक-सुरोदक-घृतोदक-दधि-मण्डोदक शुद्धोदक-क्षीरोदक नामानः सप्त समुद्राः । ६ क- ‘ख्यात्यैर्विष्णु०', घ-ख्यात्ये विष्णु' ।। ७ शार्दूल ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org