SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३४ चतुर्विशतिप्रबन्ध [ श्रीमदनकीर्ति मुव्यता प्रसथ दिग्वस्त्रः । इयं योऽस्यैव भवतु । इति श्रुत्वा तं मुक्त्वा तां तस्यैव पत्नीमकरोत् । स च राज्यांशभाजनं कृतः । दिग्विजयधनानि च श्वशुरसाञ्चकार । व्रतं त्यक्त्वा भोगी जातः। तं तादृशं वृतान्तं विशालकीर्तिर्गुरु रुज्जयिन्या'मश्रौषीत् , अध्यासी च- अहो यौवनधनकुसङ्गानां महिमा येनायमेवंविधोऽपि व्रती विद्वान् वादी योगज्ञो भूत्वा एवंविधं उग्रदुर्गतिपतनमूलं कुपथं "प्रपत्नः। हा हा धिक् । परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च तनुते ॥१॥ एवं विमृश्य चतुरांश्चतुरः शिष्यांस्तबोधनाय प्राहैषीत् । तैस्तत्र गत्वोक्तोऽसौ-- विरमत बुधा ! योषित्सङ्गात् सुखात् क्षणभङ्गुरात् कुरुत करुणाप्रज्ञामैत्रविधूजनसङ्गमम् । न खलु नरके हाराकान्तं घनस्तनमण्डलं भवति शरणं श्रोणीबिम्ब 'क्वणन्मणिदाम वा ॥१॥ इत्यादि गुरुभिर्बोध्यमानोऽसि । बुध्यख । मा मुहः । सोऽथ नित्रपतया तेषां हस्ते गुरुभ्यः पद्यानि पत्रे लिखित्वा प्रजिघाय । २० गतास्ते तत्र । वाचितानि पद्यानि गुरुणा "तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना, नासौ गुरुर्यस्य वचः प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां, महाजनो येन गतः स पन्थाः"||१॥ प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः ।। प्राप्यते येन निर्वाण, सरागेणापि चेतसा ॥२॥ । १ घ-' चास्यैव '। २ घ--'दिगंजय'। ३ घ- योगिन्या (१) भूत्वा' ख- 'गतः।५शिखरिणी।६ग-'रणन्मणि' । ७ हरिणी। उपजातिः। रमनुष्टुप् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy