SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२८ चतुर्विंशतिप्रबन्धे [ १३ श्री अमरचन्द्र अत्र शिरोऽक्ष्णामिति शिरसा युक्तानामक्ष्णामिति मध्यमपदलोपी समासः कार्यः । द्वन्द्वे तु प्राण्यङ्गत्वादेकत्वं प्राप्नोति । ततो 'बामन'स्थलीयकवि सोमादित्येन समस्या दत्ता 1 'धनुष्कौटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ' । ५ अमरेणोक्तम् भवस्याभूदू भाले हिमकरकरा गिरिसुताललाटस्य श्लेषे हरिणमदण्डप्रतिकृतिः । कपर्दस्तत्प्रान्ते यदमरसरित् तत्र तदहो धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥२॥ १० ततः 'कृष्ण' नगरवास्तव्येन कमलादित्येन समस्या वितीर्ण- ' मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् ' । अमरेण पुपूरे तटविपिन विहारोच्छुङ्खलं यत्र यादोमशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् । १५ बैंक ! बत न कदाचित् किं श्रुतोऽप्येष वार्धिः प्रतनुतिमिनि तल्ले कापि गच्छ क्षणेन ॥ ३ ॥ * २० अथ 'बीसलनगरी' येण नानाकेन समस्या विभ्राणिता' गीतं न गायतितरां युवतिर्निशासु ' । अमरेणोक्तम् 'श्रुत्वा ध्वनेर्मधुरतां सहसाऽवतीर्णे भूमौ मृगे विगतलाञ्छन एष चन्द्र । मा गान्मदीयवदनस्य तुलामितीव गीतं न गायतितरां युवतिर्निशासु || ४ || १ ‘अत्र' इत्यारभ्य ‘प्राप्नोति' इति यावत् पाठः प्रक्षिप्तो माति, द्वन्द्वे एकवत्त्वस्य वैभाषिकरणात् । २ घ - 'स्य श्रेषे' । ३ शिखरिणी । ४ग - 'बत बक न', ध- 'तब बक ब' । ५ माकिनी । ६ बसन्त० । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy