SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रवन्धकोशेत्यपराये ___ एवं अष्टोत्तरं शतं बहुकविदत्ताः पूरिताः समस्याः श्रीअमरेण । ततो राज्ञाऽभिहितम्- सत्यं कविसार्वभौमः श्रीअमरः। तत्र दिने सन्ध्यावधि सभा निषण्णा स्थिता । राजा लचितः सभ्यलोकोऽपि । 'रसावेशे हि कालो जर्गच्छन्नपि न लक्ष्यते' । द्वितीय दिने सद्यः काव्यमयैः प्रमाणोपन्यासैः प्रामाणिका 'जिताः । तृतीग- ५ दिने राज्ञा पृष्टम्- अस्माकं सम्प्रति का चिन्ताऽस्तीति कथ्यताम् । अमरेण भणितम्- देव ! कथं दूरं गताः स्वर्गे ऐरावणस्य दक्षिणकणे लुकिताः । भूपतिः स्वसंवादेऽमोदत, शिरोऽधुनोत् । नित्यं गमनागमने जिनधर्मासन्नः कृतो राजा चैत्येषु पूजाः कारयति । एकदा नृपेण पृष्टम्- भवतां कः कलागुरुः ? । अमरेण गदितम्- अरिसिंहः कविराज इति । तर्हि प्रातरत्रानेयः । अमरचन्द्रेणानीतः प्रातः कविराज उपराजम् । तदा राजा खड्गेन श्रमयन्नास्ते । राज्ञा पृष्टम्- अयं कविराजः । कविराजेन व्याजहे- ओमिति । राजाऽऽह-तर्हि वद कालोचितं किञ्चित् । १५ 'अरिसिंहः कवयति त्वत्कृपाणविनिर्माण-शेषद्रव्येण वेधसा । कृतः कृतान्तः सर्पस्तु, करोद्वर्तनवर्तिभिः ॥१॥ 'अच्छाच्छाभ्यधिकार्पणं किमपि यः पाणेः कृपाणेर्गुणः सञ्चक्राम स यद् ददौ ग्रुपदवीं प्रत्यर्थिषु मार्थिषु । त्वत्सङ्गान्न स बद्धमुष्टिरभवद् येनारिपृथ्वीभुजां पृष्ठेषु स्वमपि प्रकाममुदितः प्रोद्दामरोमोद्गमः ॥२॥ कलयसि किमिह कृपाणं, वीसल ! बलवन्ति शत्रुषु तृणानि । यानि मुखगानि तेषां, ने चैष लयितुमसमर्थः ॥३॥" १ 'मोहितम्' । २ ग-जाताः' । ३ घ--'अमरसिंह कवि०' । घ-'अमरसिंहः'। ५ अनुष्टुप् । ६ ग-'अत्यर्थाभ्यधिका०' । ७ क-'मतिप्रकाम' | 6 शार्दूल । ९ घ-'तवैष' । १. आर्या । पतुर्विशति. 10 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy