________________
प्रवन्धः ] प्रवन्धकोशेत्यपराह्वये प्रसिद्धेश्च 'महाराष्ट्रा'दिराजेन्द्राणां पूजा उपतस्थिरे । तदा 'वि(वी)सलदेवो राजा 'गूर्जरा'धिपति'र्धवलक्रके' राज्यं शास्ति, तेनाऽमरकवर्गुणग्रामः श्रुतः । ठक्कुरं वइजलं प्रधानं प्रेष्य प्रातराहूतः कवीन्द्रः । आसनादिप्रतिपत्तिः कृता । सभा महती । अमरेण पठितम्वीक्ष्यैतद्भुजविक्रमक्रमचमत्कारं न(नि)कारं मयि _ 'प्रेम्णो नूनमियं करिष्यति गुणग्रामैकगृह्याशया । श्रीमद्वीसलदेव ! देवरमणीवृन्दे त्वदायोधने
प्रेक्ष्य प्रक्षुभिते विमुञ्चति परीरम्भान्न रम्भा हरिः ॥१॥ स्वत्प्रारब्धप्रचण्डप्रधननिधनतारातिवीरातिरेक
क्रीडत्कीलालकुल्यावलिभिरलभत स्यन्दमाकन्दमुर्वी ॥ दम्भोलिस्तम्भमाखर्भुज ! भुजगजगद्भर्तुराभर्तुरेनां
तेनायं मूर्ध्नि रत्तद्युतिततिमिषतः शोभते शोणभावः ॥२॥ रञ्जिता सभा, प्रीणितः पृथ्वीपालः । ततो राज्ञा प्रोक्तम्- यूयं कवीन्द्राः श्रूयध्वे । अमरोऽभिधत्ते-- सत्यमेव यदि गवेषयति १५ देवः । ततो नृपेण सोमेश्वरदेवे दृष्टिः सञ्चारिता । ततः सोमेश्वरेण समस्याऽर्पिता । यथा'शीर्षाणां सैव वन्ध्या मम नवतिरभूल्लोचनानामशीतिः' ।
अमरेण सद्यः पूरिता - 'कैषा भूषा शिरोऽक्ष्णां तव भुजगपते ! 'रेखयामास भूस्या २०
द्यूते मन्मूर्भि शम्भुः सदशनवशतानक्षपातान् विजित्य । गौरी त्वानञ्ज दृष्टीर्जितर्नखनवभूस्तद्विशेषात् तदित्यं
शीर्षाणां सैव वन्ध्या मम नवतिरभूल्लोचनानामशीतिः॥१॥"
१ ख-'विश्वलदेवो' । २ घ-'ठक्कुरवइ' । ३ क-'प्रेम्णा'। र शार्दूल. ५ग-घ-'भुजगभुजजग०' । ६ स्रग्धरा । ७ 'रेषया. ' । ८ घ.' सन्मूर्ध्नि' । ९ ९१० । १० १९२० । ११ स्रग्धरा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org