SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्ध [११ मानमरचन्द्र [१३] ॥ अथ अमरप्रबन्धः ।। श्री अणहिल्लपत्तना'सन्नं 'वायट' नाम महास्थानमास्ते, चतुरशीतिमहास्थानानामन्यतमत् । तत्र परपुरप्रवेशविधासम्पन्नश्रीजीवदेवसूरिसन्ताने श्रीजिनदत्तसूरयो जगर्जुः । तेषां शिष्योऽमरो नाम प्रज्ञालचूडामणिः । स श्रीजिनदत्तसूरिभक्तात् कवि जात् अरिसिंहात् 'सिद्धसारस्वतं' मन्त्रमग्रहीत् । तद्गच्छमहाभक्तस्य विवेकनिधेः कोष्ठागारिकस्य पद्मस्य विशालतमसदनैकदेशे विजने एव विंशत्याचाम्लैर्निद्राजया-ऽऽसनजय-कषाय[जय]जयादि१० दत्तावधानस्तं मन्त्रमजपत् । विस्तरेण होमं च चक्रे । एक विंशतितम्यां रात्रौ मध्यप्राप्तायां नभस्युभ्युदिताच्चन्द्रबिम्बानिर्गत्य खरूपेणागत्यामरं भारती करकमण्डलुजलममलमपीप्यत् वरं च प्रादात्- सिद्धकविर्भव, निःशेषनरपतिपूजाँगौरवितश्चैधि । इति वरं दत्त्वा गता भगवती । जातः कविपतिरमरः । रचिता काव्य१५ कल्पलता नाम कविशिक्षा, छन्दोरत्नावली, सूक्तावली च । कलाकलापाख्यं च शास्त्रं निबद्ध, बालभारतं च । बालभारते ( स. ११) प्रभातवर्णने ( श्लो. ६) "दधिमथनविलोलल्लोलदृग्वणिदम्मा __ दयमदयमनङ्गो विश्वविश्वैकजेता । २० भवपरिभवकोपत्यक्तबाणः कृपाण अममिव दिवसादौ व्यक्तशक्तिय॑नक्ति" ॥१॥ इत्यत्र वेण्याः कृपाणत्वेन वर्णनाद् 'वेणीकृपाणोऽमर' इति बिरुदं कविन्दाल्लब्धं दीपिकाकालिदास'वद् 'घण्टामाघ'वच्च । कवित्व १ घ-'अथ श्री.'। २ ग-परकायप्रवेश' । ३ ग-'प्रज्ञाचूडा०' । ४ ग'राज अरि०। ५ घ--'तमे सदनैक १६ ग--'प्राक्षीत्। ७ ख-गौरवविता०', घगौरवताश्चैधि। ८ घ-पाणः। ९मालिनी। १० घ-'वन्दालन्धममरेण दीपिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy