________________
प्रबन्धः ] प्रबन्धकोशेत्यपराहये सपादकोटिहेमप्रमितो दण्डः प्रहितः । श्रीवस्तुपालेन तु तद् हेम चतुर्दिग्यात्रिकेभ्यो याचकेभ्योऽदायि विवेकात् । तद् दृष्टा हरिहरो वर्णयति-- आः साम्यं न सहेऽहमस्य किमपि कोडीकृतैकश्रियो
याश्चोत्तानकरेण खर्वितनिजाकारोष्मणा 'शाङ्गिणा । येनैता पुरुषोत्तमाधिकगुणोद्गारेण 'युद्धार्णवा
दाकृष्यैव तथा श्रियः शकलशः कृत्वाऽर्थिनामर्पिता ॥३॥ तदा वीरधवलस्य 'सपादकोटीकाश्चनवर्ष ' इति भट्टादिषु बिरुदं ख्यातिमायातम् । अथ हरिहरः सोमेश्वरं नन्तुं गतो 'देवपत्तनम् । पण्डितसोमेश्वरदेवस्य तत्र तद् दौर्जन्यं स्मृत्वा विषण्णेन काव्यं १० भणितम्क्व यातु क्वायातु क्व वदतु समं केन पठतु !
क्व काव्यान्यव्याजं रचयतु सदः कस्य विशतु । खलव्यालग्रस्ते जगति न गतिः क्वापि कृतिना
मिति ज्ञात्वा तत्त्वं हर! हर विमूढो हरिहरः ॥४॥ १५ आरुक्षाम नृपप्रसादकणिकामद्राक्ष्म लक्ष्मीलवान्
किश्चिद् वाङ्मयमध्यगीष्महि गुणैः कांश्चित् पराजेष्महि । इत्थं मोहमयीमकार्म कियती नानर्थकन्थी मनः
खाधीनीकृतशुद्धबोधमधुना वाञ्छत्यंऽमापगाम् ॥२॥ इत्युक्त्वा धनाध दत्त्वा शेषार्ध गृहीत्वा 'धवलक्कक'मध्ये भूत्वा २० राणक-मन्त्रिणी आपृच्छप 'कासीं' प्राप्य स्वार्थमसाधयत् ।
॥ इति हरिहरप्रवन्धः ॥१२॥
17--शाणा', ख-शाहिणा'। २ ग-'पुर्वार्णवा-'1 शार्दूल | शिखरिणी। ५५-'कन्या' । ६ स्थगेनाम् । ७ शार्दूल०। 'समाप्तः' इत्यधिको ग-पाठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org