________________
चतुर्विशतिप्रबन्धे
[" श्रीहर्षकवि
राज्ञी बलवती, लब्धप्रसरा, अविवेकिनी । मम मरणं यदि स्वामिमरणादर्वाग् भवेत् तदा धन्यता । प्रातश्चलितो मन्त्री स्वसदनात् । पथि गच्छन्तं 'पिण्याकं दृष्ट्वा तमजिग्रसिषत् । पुनः पुरो गतः । स्फुटितचनकपिटकमालोक्य तददने मनोऽदधत् । तेन कुचेष्टादयेनात्मनो विधिवपरीत्यं निर्णीयोपरानं गत्वा व्यज्ञपत्- देव! अहं 'गङ्गा'जले मङ्क्त्वा म्रिये, यद्यादिशसि । राजाऽऽख्यत्-~~-यदि म्रियसे तदा सुखेन जीवामः । कर्णज्वरो निवर्तते । मन्त्री दूनः हुँ हितवचनानाकर्णनम्, अनये वृत्तिः, प्रियेष्वपि द्वेषः, निज
गुरुजनेऽप्यवज्ञा, मृत्योः किल पूर्वरूपाणि । आगतं राज्ञो मर१० णम् । राजानमापृच्छय गृहं गत्वा सर्वस्वं द्विजादिलोकाय प्रदाय
भवविरक्तो 'जाहवी'जलमध्यं प्रविश्य कुलपुरोहितमाह- दानं गृहाण । विप्रेणापि करः प्रसारितः । दत्तः स्पर्शपाषाणः । तेनोक्तम्- धिक् ते दानं यद् ग्रावाणं दत्से । इति क्रुद्धनान्तरुदकं चिक्षिपे । सोऽश्मा गङ्गादेव्या लले । मन्त्री जले मङ्क्त्वा मृतः ।
राजाऽनाथो जातः । सुरत्राण आयातः । नगरे भाण्डं भाण्डेन १५ स्फुटितम् । राजा युद्धायाभिमुखमागात् । ८४०० एतावन्ति
निस्वानानि निजदले, परं एकस्यापि निस्वानस्वनं राजा न शृणोति। आपृच्छच्च तटस्थान् । तैर्बभणे- म्लेच्छधनुर्वानेषु मग्नानि ध्वानान्तराणि । राजा हृदयेऽहारयत् । ततो न ज्ञायते किं हतो गतो
मृतो वा । यवनैलाता पूः ॥ २० ॥ इति श्रीहर्ष-विद्याधर-जयचन्द्रप्रबन्धः ॥ ११ ॥
तिलकल्कम्, 'खोळ' इति भाषायाम् । २ क- व्यज्ञपयत्' । ३ घ-८४०. विस्वानस्वनं '। ख--ग-'हारयामास'। ५ 'गङ्गानलेऽपतत्' इत्यधिको ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org