________________
प्रबन्धकोशेस्यपराये
११९
[१२]
॥ अथ हरिहरप्रबन्धः ॥ 'श्रीहर्षवंशे हरिहरः गौडदेश्यः सिद्धसारस्वतः । स 'गूर्जर'धरां प्रत्यचालीत् । अश्वशतद्वयं, मानवानां शतपञ्चकं, करभाः पञ्चाशत् । अनिवारमन्नदानं 'धवलक्कक'तटग्राममागात् । राणश्री- ५ वरिधवल-श्रीवस्तुपाल-श्रीसोमेश्वरदेवेभ्यः पृथक् पृथक् आशीर्वाद प्रागल्भबटुहस्तेन प्रादेषात् । श्रीवस्तुपालो जहर्ष । उत्थाय बटुं सह नीत्वा श्रीबीरधवलाय पण्डितस्याशीर्वादमदीहशत् । तद्गुणांश्चावर्णयत् । राणकेनोक्तम्- किमत्र युक्तम् । मन्त्र्याहदेव ! विस्तरेण प्रातः पण्डितस्य प्रवेशमहोत्सवः क्रियते । विपुलं १० देयं दीयते । राणकेनोक्तम्- न्याय्यम्, ततो निवृत्तौ मन्त्रिराजश्च बटुश्च । बटुना तृतीयाशीर्वादः पण्डितसोमेश्वरदेवायादर्शि । कवितया तस्य मात्सर्यमदीपिष्ट । स निश्वासमधोऽद्राक्षीत् । बटुमालापीदपि न । आगत उत्थाय बटुहरिहरान्तिकम् । उक्तं राणकमन्त्रिणोः सौमनस्य, सोमेश्वरस्य तु दौर्मनस्यम् । कुपितः सोमे- १५ श्वरदेवे हरिहरः । जातं प्रातः । राणकः समन्त्रिकः सचातुर्वर्ण्यः सर्वद्धर्या सम्मुखो गतः । मिलितो हरिहरः । तत्र वीरधवलं प्रतिशम्भुमानस'सनिधौ सुरधुनी मूनी दधानः स्थितः
श्रीकान्तश्चरणस्थितामपि वहन्नेता निलीनोऽम्बुधौ । मग्नः पङ्करहे कमण्डलुगतामेनां दधनाभिभू___ मन्ये वीर ! तव प्रतापदहनं ज्ञात्वोल्षणं भाविनम् ॥ १॥ दृष्टस्तेन शरान् किरन्नभिमुखः क्षत्रक्षये भार्गवो
दृष्टस्तेन निशाचरेश्वरवधव्यग्रो रघुग्रामणीः । १ ख-'अन्नगार०' । २ ग-धवलक्कतट०'। ३ क-'देवयोः'। ४ ख-ग-- 'बटुवाला.' । ५ विष्णुः । ६ ब्रह्मा । ७ शाईल.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org