________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराहये
पाठयति लोके । श्रीहर्षोऽपि 'नरभारती'ति पठ्यते । तस्य तन्न सहते सा मत्सरिणी ।
एकदा ससत्कारमाकारितः श्रीहर्षः। भाणितश्च- त्वं कः ? । श्रीहर्ष:- कलासर्वज्ञोऽहम् । राज्ञाऽभाणि- तर्हि मामुपानही परिधापय । को भावः ? । यद्ययं न वेभि इति भणति द्विजत्वात् तर्हि ५ अज्ञः । श्रीहर्षेणाङ्गीकृतम् । गतो निलयम् । तरुवल्कलैस्तथा तथा परिकर्मितैः सायं लोलाक्षः सन् दूरस्थः स्वामिनीमाजूहवत् । चर्मकारविधिनोपानही पर्यदीधपत् । अभ्युक्षणं निक्षिपध्वं चर्मकारोऽहमिति वदन् । राजानमपि तत्कृतां कुचेष्टां ज्ञापयित्वा खिन्नो 'गङ्गा'तीरे संन्यासमग्रहीत् । सा च सहवदेविः साम्राज्येशा पुत्र- १० मजनयत् । सोऽपि यौवनमाससाद । धीरः, परं दुर्नयमयः । तस्य च राज्ञो विद्याधरमन्त्री । स च चिन्तामणिविनायकप्रसादात् सर्वधातुहैमत्वकरणप्रख्यातमाहात्म्यस्पर्शपाषाणलाभात् ८८०० विप्राणां भोजनं दाता, इति 'लघुयुधिष्ठिर'तया ख्यातः । कुशाग्रीयप्रज्ञः । राजा तं जगदे- राज्यं कस्मै कुमाराय ददामि ? । मन्त्र्याह- १५ मेघचन्द्राय सुवंशाय देहि, न पुनर्धतापुत्राय । राजा तु तया कार्मणितस्तत्पुत्रायैव दित्सति । एवं विरोध उत्पन्नो मन्त्रि-राज्ञोः । कथङ्कथञ्चिन्मन्त्रिणा राज्ञीवाचमप्रमाणीकार्य भूपो मेघचन्द्रकुमाराय राज्यदानमङ्गीकारितः । राज्ञी क्रुद्धा । धनाढ्यतया स्वच्छन्दतया निजप्रधाननरान् प्रेष्य 'तक्षशिला' ऽधिपतिः सुरत्राणः 'कासी'- २० भलनाय प्रयाणे प्रयाणे सपादलक्षहेमदानेन चालित आयाति । तत् तु विद्याधरेण चरदृशा विदितम् । राज्ञे कथितम् । राजा तत्कार्मणेदिङ्मूढः प्राह-ममेयं वल्लभेश्वरी नैवं पतिद्रोहं समाचरति । मन्त्री तु वदति- राजन् ! अमुकप्रयाणे तिष्ठति शाखीन्द्रः । राज्ञा हक्कितो गतो गृहम् । चिन्तितं च तेन- नृपस्तावन्मूढः । २५
ग-'पाठते' । २ सिञ्चनम् । ३ ख-दुर्णय.' । ४ 'सुलतान' इति भाषायाम् । ५ घ--'दृढमूदः' । ६ ख-साखीन्द्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org