________________
१०
चतुर्विशतिप्रबन्धे [११ श्रीहर्षकविवरं प्रज्वलिते वह्ना-वहाय निहितं वपुः । न पुनर्गुणसम्पन्ने, कृतः स्वल्पोऽपि मत्सरः ॥१॥ वरं सा निर्गुणाऽवस्था, यस्यां कोऽपि न मत्सरी । गुणयोगे तु वैमुख्यं, प्रायः सुमनसामपि ॥२॥ तस्मात् खला यूयम् । गच्छत एतं महात्मानं प्रत्येकं स्वगृहेषु सत्कुरुत । तदा श्रीहर्षः प्रागदीत्
यथा यूनस्तद्वत्परमरमणीयाऽपि रमणी
कुमाराणामन्तःकरणहरणं केव कुरुते । मदुक्तिश्चेतश्चेन्मदयति सुधीभूय सुधियः
किमस्या नाम स्यादरसपुरुषाराधनरसैः ? ॥१॥ इति ललजिरे पण्डिताः । सर्वे गृहं नीत्वा सत्कृत्यानुनीय राज्ञा च सत्कार्यज्ञैः प्रहितः श्रीहर्षः 'कासी(शी ?)'म् । मिलितो जयन्तचन्द्राय । उक्तं सर्वम् । तुष्टः सः । प्रसृतं नैषधं लोके ।
अत्रान्तरे जयन्तचन्द्रस्य पदमाकरनामा प्रधाननरः श्री अण१५ हिलपत्तनं' गतः । तत्र सरस्तटे रजकक्षालितायां शाटिकायां
केतक्यामिव मधुकरकुलं निलीयमानं दृष्ट्वा विस्मितोऽप्राक्षीद् रज. कम्- यस्या युवतेरियं शाटी तां मे दर्शय । तस्य हि मन्त्रिणस्तत्पभिनीत्वे निर्णयस्थं मनः । रजकेन सायं गत्वा तस्मै तद्गृहं नीत्वा तामर्पयित्वा तत्स्वामिनी सूहवदेविनाम्नी शालापतिपत्नी विधवा यौवनस्था स्वरूपा दर्शिता । तां श्रीकुमारपालराजपार्थादुपरोध्य तद्गृहान्नीत्वा सोमनाथयात्रां कृत्वा 'कासी' गतः । तां पभिनीं जयन्तचन्द्रमोगिनीमकरोत् । सहवदेविरिति ख्यातिमगात् । सा च सगर्वा विदुषीति कृत्वा 'कलाभारती'ति
२० विधा
१ अनुष्टुप् । २ सूत्रसम्बन्धे इति पक्षान्तरे । ३ पुष्पाणाम् इति पक्षान्तरे। ४ अनुष्टुप् । ५ क-'स्वस्वगृहेषु' । ६ घ--'प्रागदत् । ७ शिखरिणी। ८ ख-श-घ-- 'लडिरे' ।९ ग-'प्राक्षद्' ।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International