________________
प्रबन्धः ] प्रबन्धकोशेत्यपराह्वये इति वाग्देवीवाचं श्रुत्वा श्रीहर्षो वदति- किमर्थमेकस्मिन्नवतारे नारायणं पतिं चक्रुषी, त्वं पुराणेष्वपि विष्णुपत्नीति पठ्यसे। ततः 'सत्यं किमिति कुप्यसि । कुपितैः किं 'छुट्यते कलङ्कात् ? । इति श्रुत्वा स्वयं गृहीत्वा पुस्तकं हस्ते धारितम् । ग्रन्थश्च श्लाधि
तः सभासमक्षम् । श्रीहर्षेण पण्डिता उक्तास्तत्रत्या:- ग्रन्थमत्र- ५ त्याय राज्ञे माधवदेवनाम्ने दर्शयत । श्रीजयन्तचन्द्राय च शुद्धोऽयं ग्रन्थ इति लेखं प्रदत्त । इति श्रुतेऽपि ग्रन्थे भारत्यभिमते ज्ञातेऽपि ते लेख न ददते, न भूपं दर्शयन्ति । स्थितः श्रीहर्षो बहून् मासान् । जग्धं पाथेयम् । विक्रीतं वृषभादि । मितीभूतः परिच्छदः ।
एकदा नद्यासन्नदेशे कूपतटासन्नतमे देवकुले रुद्रजपं रहः करोति । तत्रागते कयोश्चिद् गृहिणोरुल्लण्ठे चेट्यौ । जलप्रथमपश्चाद्ग्रहणघटभरणविषये वादे लग्ने । तयोश्चिरमुक्तिप्रत्युक्तिरभूत् । शीर्षाणि स्फुटितानि घातप्रतिघातैः । गते राजकुलम् । राजा साक्षिणं गवेषयति । उक्ते ते- अत्र कलहे कोऽपि साक्षी विद्यते १५ न वा ? । ताभ्यां जगदे-विप्र एकस्तत्रास्ते जपतत्परः । गता राजकीयाः । आनीतः श्रीहर्षः पृष्टस्तयोर्नयानयौ । श्रीहर्षेण गीर्वाणवाण्योक्तम्- देव ! वैदेशिकोऽहम् । न वेनि किमप्येते प्राकृतवादिन्यौ ब्रूतः; केवलं तान् शब्दान् वेनि । राज्ञोक्तम्- ब्रूहि । तत्क्रमस्थमेव तद्भाषितप्रतिभाषितशतमभिहितमनेन । राजा चम- २० स्कृतः । अहो प्रज्ञा ! अहो अवधारणा ! दास्योर्वादं निर्णीय यथासम्भवं निग्रहानुग्रहौ कृत्वा प्रहित्य श्रीहर्षमपृच्छद् राजा- कस्त्वमेवं मेधिरशिरोमणिः । श्रीहर्षेणोऽक्तं सर्व कथानकं स्वम् । राजन् ! पण्डितकृतदौर्जन्यात् तव पुरे दुःखी तिष्ठामि । सम्यक्पारम्पर्यज्ञो राजा पण्डितानाहूयावादीत्- धिग् मूढाः ! ईदृशेऽपि २५ रल्ने न स्निह्यथ ।
१ ख-'सत्ये किमति०' । २ 'छूटाय छे' इति भाषायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org