________________
શ્ય
चतुर्विंशतिप्रबन्धे
[११ श्रीहर्षकाने -
इदं श्रुत्वा श्रीहर्षो निष्क्रोध इवासीत् । भूपेनोक्तम् — अत्र श्रीहर्षे इदमेव वक्तुमर्हम् । प्रतिवादीनां कोऽर्थः ? । सम्यगवसरमज्ञासीः । श्रीहीरवैरिभित्यर्थः । अन्योन्यं गाढालिङ्गनमचीकरदू द्वयोरपि वसुन्धरासुधांशुः । विस्तरेण सौधमानीय माङ्गलिकानि कारयित्वा गृहं प्रति प्रहितः । लक्षसङ्ख्यानि हेमानि ददिरे । निश्चिन्तीकृत्यैकदा मुदा नृपेणोक्तः कवीशः - वादीन्द्र ! किञ्चित् प्रबन्धरत्नं कुरु । ततो नैषधं महाकाव्यं बद्धं दिव्यरसं महागूढव्यङ्गयभारसारं राज्ञे दर्शितम् । राज्ञोचे- सुष्ठुतममिदम्, परं 'काश्मीर' व्रज । तत्रत्यपण्डितेभ्यो दर्शय । भारतहिस्ते च १० मुच । भारती च तत्र पीठे स्वयं साक्षाद् वसति । असत्यं प्रबन्धं हस्ते न्यस्तमवकरनिकरमिव दूरे क्षिपति, सत्यं तु मूर्धधू
पूर्वं सुष्ठु इत्युरीकरोति । उपरितः पुष्पाणि पतन्ति । श्रीहर्षो राजदत्तार्थनिष्पन्नविपुलसामग्रीकः 'काश्मीर'नगमत् । सरस्वतीहस्ते पुस्तकं न्यास्थत् । सरस्वत्या दूरे क्षिप्तं तत् । श्रीहर्षेण १५ कथितम् - किं जरतीति विकलाऽसि यन्मदुक्तमपि प्रबन्धमितरप्रबन्धमिव मन्यसे । भारत्याह- भो परममभाषक ! न स्मरसि यदत्रोक्तं त्वया एकादशे सर्गे चतुःषष्टितमे काव्ये -- 'देवी पवित्रितचतुर्भुजवामभागा
२० एतस्य निष्कृपकृपाणसनाथपाणेः
२५
वागालपत् पुनरिमां गरिमाभिरामाम् ।
पाणिग्रहादनुगृहाण गणं गुणानाम् ॥ १॥
एवं मां विष्णुपत्नीत्वेन प्रकाश्य लोके रूढं कन्यात्वं लुप्तबानसि, ततो मया पुस्तकं क्षिप्तम् ।
४ अनुष्टुप् ।
---
• घ-' केवलं काश्मीरं
याचको वञ्चको व्याधिः, पञ्चत्वं मर्मभाषकः । योगिनामप्यमी पञ्च, प्रायेणोद्वेगहेतवः ॥ २ ॥ ॥१॥ *
Jain Education International
। २ ग - अस्यारि निष्कृप० । ३ वसन्त० ।
For Private & Personal Use Only
www.jainelibrary.org