________________
प्रबन्धः]
प्रबन्धकोशेत्यपराये रुक्तम्-- वयं निर्ममा निष्परिग्रहा धनादि न गृहीमः । अथ तवाल्याग्रह एव तर्हि महावीरप्रसादकारापणं दक्षिणाऽस्तु । कारितः प्रासादः। ओढरस्य जयताकेन सह सोदरत्वमिवासीत् । ___ एकदा पर्युषणे ओढरः सपरिवारश्चलितो जयताकेन समं देवगृहं प्रति । पुष्पाणि गृहीत्वा ओढरेण देवस्य पूजा कृता, ५ जयताको जजल्पे- इमानि पुष्पाणि मे गृहीत्वा पूजां कुरु । जयताको जगाद- पुष्पाणि भवदीयानि, एभिः पूजायां कृतायां किं मे फलम् ? । 'विष्टिरेवं केवला । केवलं ममापि पञ्च वराटका सन्ति । तत्पुष्पैः पूजयिष्यामि जिनेन्द्रम् । तथैव पूजितः । जयताको पुण्यमगण्यमुपार्जयत् । तत ओढर-जयताको गुरून् १० वन्दितुं जग्मतुः । उपवासः कृतो जयताकेन । द्वितीयदिने मुनि* यो दत्त्वा पारणं कृतम् । एवं पुण्याढ्यः सन् मृत्वा श्रीमूलराजवंशे तिहुअणपालदेवगृहे श्रीकुमारपालोऽभूत् । एवमुक्त्वा विरतासु देवीषु प्रभुभिः प्रोक्तम्- कोऽत्र प्रत्ययः ? । पुनर्देव्यः प्राहुः- उपराजं वदेः नवलक्षतिलङ्गशृङ्गारनगरे 'उरङ्गले' मान- १५ वान् प्रेषय । अद्यापि ओढरस्य वंशीयाः सन्ति । तेषां दासी स्थिरदेवी जीर्णवृत्तान्तान् जानाति वक्ष्यति च । इँदं श्रुत्वा विसृज्य गच्छन्ताभिर्देवीभिस्तत्रत्ये ओढेरगृहे लप्स्यमानानि निधानानि कथितानि । विज्ञाय 'पत्तने' राजान्तिकं गता प्रभवः । पृष्टं तत्र राज्ञा । तथैव राज्ञोऽने न्यगादि । नरप्रेषणात् सर्व ज्ञातम् । २० जिनधर्मे स्थैर्य जातम् । संह सिद्धसेनेनापि वैरकारणमुपलब्धम् । पूर्वभवे गर्भघातान्न सिद्धराजस्य पुत्रः । इति कुमारपालपूर्वभवः ।।
॥ इति हेमसूरिप्रबन्धः ॥ १०॥
१ ग-तर्हि धीमहा०'। २ ग-'इमानि मे पुष्पाणि' । ३ 'वेठ' इति भाषायाम् । ४ ग-वेष्ठिरेव'। ५ ख-'नवलक्षनवशृङ्गार.', घ-नवलक्षतिलिङ्गः०१६ 'जूना' इति भाषायाम् । ७ क-ख-'इत्युक्त्वा देव्यो गताः स्वस्वस्थानम्। पत्तने राजान्तिकं' । . ग-सह सिद्धेशेनापि' । ९ ग-'सन्तानम्' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org