________________
११२ चतुर्विशतिप्रबन्धे
[ ११ श्रीहर्ष[११] ॥ अथ श्रीहर्षकविप्रबन्धः॥ पूर्वस्यां दिशि 'वाराणस्यां' पुरि गोविन्दचन्द्रो नाम राजा ७५० अन्तःपुरीयौवनरसपरिमलग्राही। तत्पुत्रो जयन्तचन्द्रः । तस्मै राज्यं दत्त्वा पिता योगं प्रपद्य परलोकमसाधयत् । जयन्तचन्द्रः सप्तयोजनशतमानां पृथ्वी जिगाय । मेघचन्द्रः कुमारस्तस्य यः सिंहनादेन सिंहानपि भक्तुमलम्, किं पुनर्मदान्धगन्धेभघटाः ।। तस्य राज्ञश्चलतः सैन्यं 'गङ्गा'-'यमुने' विना नाम्भसा तृप्यति ।
नदीद्वययष्टिग्रहणात् 'पगुलो' राजेति लोके श्रूयते । यस्य गोमती१० दासी षष्टिसहस्रेषु वाहेषु प्रक्षरां(रं) निवेश्याभिषेणयन्ती परचक्रं
त्रासयति । राज्ञः श्रम एव कः ? । तस्य राज्ञो बहवो विद्वांसः । तत्रैको हीरनामा विप्रः । तस्य नन्दनः प्राज्ञचक्रवर्ती श्रीहर्षः । सोऽद्यापि बालावस्थः । सभायां राजकीयेनैकेन पण्डितेन वादिना
हीरो राजसमक्ष जित्वा मुद्रितवदनः कृतः । लज्जापङ्के मग्नः । वैरं १५ बभार धारालम् । मृत्युकाले श्रीहर्ष स बभाषे- वत्स ! अमुके
न पण्डितेनाहमाहत्य राजदृष्टौ जितः । तन्मे दुःखम् । यदि सत्पुत्रोऽसि तदा तं जयेः मापसदसि । श्रीहर्षेणोक्तम्- ओमिति । हीरो द्यां गतः । श्रीहर्षस्तु कुटुम्बभारमाप्तदायादेष्वारोप्य विदेश गत्वा विविधाचार्यपार्श्वेऽचिरात् तर्का-ऽलङ्कार-गीत-गणित-चूडामणि-मन्त्र-व्याकरणादीः सर्वा विद्याः सस्फुराः प्रजग्राह । 'गङ्गातीरे सुगुरुदत्तं 'चिन्तामणि'मन्त्रं वर्षमप्रमत्तः साधयामास । प्रत्यक्षा त्रिपुराऽभूत् । अमोघादेशत्वादिवराप्तिः । तदादि राजगोष्ठीषु भ्रमति । अलौकिकोल्लेखशिखरितं जल्पं करोति यं कोऽपि न बुध्यते, ततोऽतिविद्ययाऽपि लोकागोचरभूतया खिन्नः । पुन
' १ ग-अथ हर्ष'।२ घ-'पूर्वस्यां वारा.'१३ घ-तृप्यतीति' । ४ तुरङ्गसला. हम्, 'पाखर' इति भाषायाम् । ५ खास्य धारावत् , तीत्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org