________________
११०
चतुर्विशतिप्रबन्धे [.. माहेमचन्द्रसूरि'लव'देशं गतः । राज्ञा हृष्टेन पृष्टः- कथं कथं विग्रहः कृतः ।। वाणिज्यारकेणोक्तम्-खामिन् ! तत्पुरं प्रज्वालितम् , जयताको नष्टः, तत्पत्नी चटिता, सगर्भा हता । राज्ञोक्तम्- त्वया म मुष्ठु कृतम् । हत्याद्वयं गृहीतम् । अद्रष्टव्यमुखस्त्वं ममान्तिकं त्यज । निष्कासितः । लोकनिन्दोच्छलिता । तपोवनं गत्वा तपस्विदीक्षा जगृहे । गाढं तपस्तप्त्वा मृत्वा च वाणिज्यारको जयसिंहदेवो जातः । जयताकस्तु स्थानभ्रंशं दृष्ट्वा देशान्तरं गतः । अटवीं गच्छतस्तस्य 'षण्डेर'गच्छस्वामिनः श्रीयशोभद्रसूरयो मिलिताः ।
सूरिभिरभिहितम् - यद् भवतोऽधुना सर्व गतम् , किमर्थमन्यायं १० करोषि ? जयताकेनोक्तम्--- 'बुभुक्षितः किं न करोति पापम् ।।
ततः सर्वमकृत्यं करोमि । सूरिभिरुक्तम्- अधुना शम्बलादिकं भोजनादि कारयिष्यते । अनयं मा कृथाः । भोजनवस्त्रादिकं कस्यापि पार्थाद् दापितम् । साथै हि तदादेशकारिणो बहवः चौर्य
नियमं यावजीवं ग्राहिताः । स तिलङ्गेषु 'उरङ्गल'पुरे ओढर१५ वाणिज्यारकगृहे भोजनादिवृत्त्या भृत्योऽस्थात् । तत्र विहरन् यशो
भद्रसूरयः प्राप्ताः । चतुष्पथे मिलिता जयताकस्य । श्रावकैरुपाश्रयो दत्तः । जयताकेन तत्र गत्वा हृदयशुद्धया पुनश्चौर्यनियमो गृहीतः, अन्येऽपि बहवो 'ग्राहिता नियमाः । उत्सूरे ओढरगृहं
गतः । ओढरेण पृष्टम्- तव क वेला लग्ना ? । त्वां विना २० कार्याणि सीदन्ति । तेनोक्तम् --- मम गुरवः समागताः सन्ति
तत्क्रमकमलवन्दनानन्दमन्वभूवम् । नियमानग्रहीषम् । ओढरेण पि समुत्पन्नश्रद्धेन व्याकृतम्- वयमपि गुरून् वन्दिष्यामहे । जयताकेनोक्तम्- पुण्यात् पुण्यमिदम् । ओढरस्तत्र गतः । गुरून्
वन्दित्वा न्यषदत् । देशना श्रुता । तत्त्वज्ञानमुन्मालितम् । श्रावकत्वं २५ गृहतिम् । पश्चाद् गुरुदक्षिणा गृह्यतामिति ओढरेणोक्ते सूरिभि. १ घ-शम्बलादि भोजनादि' । २ अनीतिम् । ३ ख-य-तिलिङ्गेषु तुर। ग. 'नियमा गृहीताः'। ५ 'लागी' इति भाषायाम् । ६ चरण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org