________________
प्रबन्धः ]
1
प्रबन्धकोशेत्यपराह्वये
१०९
कीदृशोऽभूवम् ? । गुरुराह- राजन् ! निरतिशयः कालोऽयम्, यतः श्रीवीरमोक्षगमनाद वर्षाणां चतुःषष्टया चरमकेवली जम्बूस्वामी सिद्धिं गतः । तेन समं मनःपर्यवज्ञानम् , परमावधिः, पुलाकलब्धिः, आहारकशरिम् , क्षपणश्रेणिः, उपशमश्रेणिः, जिनकल्पः, परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातचारित्राणि, ५ केवलज्ञानम् , सिद्धिगमनं च इति द्वादशस्थानानि 'भरत'क्षेत्रे व्युच्छिन्नानि । सप्तत्यधिके वर्षशते गते स्थूलभद्रे स्वर्गस्थे चरमाणि चत्वारि पूर्वाणि समचतुरस्रसंस्थानं वज्रऋषभनाराचसंहननं महाप्राणध्यानं व्युच्छिन्नम् । आर्यवज्रस्वामिनि दशमं पूर्व आद्यसंहननचतुष्कं च व्यपगतम् । ततः परं शनैः शनैः सर्वाणि १० पूर्वाणि प्रलयं गतानि । 'सम्प्रति अल्पश्रुतं वर्तते तथापि देवतादेशात् किमपि ज्ञायते । राज्ञा विज्ञप्तम् - यथातथा पूर्वभवं ज्ञापयत माम् । गुरुभिः प्रतिपन्नम् । ततः सिद्ध'पुरे निजैराप्ततपोधनैः सह 'सरस्वती'तीरं गत्वा विजने ध्याने निषण्णाः । द्वौ मुनी दिग्रक्षायां मुक्तौ । दिनत्रयान्ते 'विद्यादेव्य आजग्मुः । १५ प्रभूणामग्रे ताभिरुक्तम्-यद् भवतां सत्त्वेन तुष्टाः स्मः, याच्यता किञ्चित् । सूरिभिरमाणि-- कुमारपालस्य प्राग्भवं वदत । ता ऊचु.- 'मेदपाट'परिसरे पर्वतश्रेण्यां ‘परमार' पल्लाशो जयताको राज्यमकरोदन्यायी । एकदा धनकनकसमृद्धा बलीवर्दश्रेणी तेन गृहीता। बलीवर्दाधिपतिर्नष्टः । जयताकेन सर्व लुण्टितम् । २० . 'बलीवर्दा विपतिस्तु 'मालव'देशं गत्वा राज्ञा सह मिलित्वा सेनां गृहीत्वा तस्यां पल्लयां वेष्टमकृत । कीटमारिः कृता । जयताको नष्टः । तस्य भार्या (हस्ते) चटिता। तस्या उदरं विदार्य पुत्रं गर्भमुपले आस्फाल्य वाणिज्यारकोऽवधीत् । 'पल्ली'ग्रामादि प्रज्वाल्य पुन
... ' 'सम्प्रति' इत्यधिको ग-पाठः । २ एतन्नामार्थमेतासां प्रतिकृत्यर्थे च प्रेक्ष्यता श्रीबप्पभट्टितरिकृतचतुर्विंशतिकाया मदीयं संस्करणम् । , 'मळद' इति भाषायाम् । ४ वणजारो' इति भाषायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org