________________
प्रबन्धः . प्रबन्धकोशेत्यपराह्वये राजा 'कर्णमेरु'म् । प्रकटीभूतः पूर्वोक्तचेष्टया भरटकः । दृष्टमात्रमेव तं नृपो मल्लैग्दीधरत् । कर्तिका च लब्धा । बद्धो व्याघ्रराजः । जल्पितश्च- रे वराक ! जङ्गडकेन प्रेषितोऽसि । । सेवकस्त्वम् । सेवकस्य च हिताहितविचारो नास्ति । खाम्यादेशवशंवदस्त्वं मा भैषीः । मुक्तोऽसि । तमेव हनिष्यामि य एवं द्रोह- ५ माचरति दुर्दुरूढः । इत्युक्त्वा परिधाप्य व्यसृजत् । स्वयं तु सौधं गत्वा सामग्री यौद्धी व्यरचत् । पाणिरक्षां विधिवद् विधाय चलितः । ‘सपादलक्षा'न् प्रविष्टः । भट्टेन आनाकनरेन्द्रमालीलपत् । यथा--
अये भेक ! च्छेको भव भवतु ते कूपकुहरं ___ शरण्यं दुर्मत्तः किमु रटसि वाचाट ! कटुकम् ? । पुरः सर्पो दी विषमविषफूत्कारवदनो
___ ललजिह्वो धावत्यहह भवतो जिग्रसिषया ॥१॥ आनकोऽपि तदुद्दामशौण्डीर्यरिपुदूतवचः श्रुत्वा लक्षत्रेयाश्वेन नरलक्षदशकेन पञ्चाशता च मदान्धैर्गन्धगजैरचलत् । 'शाक- १५ म्भरी'तः पञ्चक्रोश्याऽर्वागागतः । दिनत्रयेण युद्धं भविष्यतीति निर्णीतमुभाभ्यां राजेन्द्राभ्याम् । अन्योन्यमक्षान् दीव्यन्ति राजपुत्राः। योधयन्ति मल्लयोध-च्छुरीकार-मेष-वृषभ-महिष-गजान् । स्फोटयन्ति नालिकेराणि । तावन्तमवकाशं लब्धा ‘सपादलक्ष'मापालेन निशि द्रव्यबलेन 'नड्डलीय केल्हणा'दयो राजकीया श्चौलुक्य'- २० भक्ता भेदिताः स्वपक्षे कृताः । सर्वेषामेको मन्त्रः- युद्धाय सन्नद्धव्यमेव, न तु योद्धव्यम् । राजा चौलुक्य एकाकी मोचनीयः । शत्रुभिर्हन्यताम् । अर्थो हि परावर्त्तयति त्रिभुवनम् । दधाति लोभ एवैको, रङ्गाचार्येषु धुर्यताम् । आरङ्कशक्रं यन्नाट्य-पात्राणि भुवनत्रयी ॥१॥
२५
१ ग--'सौधे । २ क-विहाय । ३ क-फूत्कारिवदनो' । । शिखरिणी। ५ ख-घ - 'त्रयाश्वो नर०' । ६ अनुष्टुप् ।
चतुर्विशति० १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org