________________
१०४
५
चतुर्विशतिप्रबन्धे [१० श्रीहेमचन्द्रसूरिकृतप्रणामः सन् राज्ञाऽऽलापि- भो! विजनमस्ति इति भाष्यसे ।.. त्वमस्माकं कुलक्रमागतः सेवकः । सद्यो व्रज । 'गूर्जरे'श्वरघातको भूत्वा व्यापादय । लक्षत्रयं हेम्नां दास्ये । अथ स व्याघ्रराजाख्यो बभाषे- देव! हनिष्याम्येव तं राजानम् । मा स्म संशय कृथाः स्वामिन् ! । ततस्तद्वचः श्रुत्वा तुष्टः 'शाकम्भरी'श्वरः सद्यो हेमलक्षत्रयबदरकांस्तद्गृहायाचीचलत् । व्याघ्रराजं चाप्राक्षीत् कदा केनोपायेन तं हनिष्यसि ? । व्याघ्रराजोऽवादीत् नाथ! अद्य रविवारो वर्तते । आगन्तुकामे सोमवारे क्वचनावसरं लब्ध्वा
हनिष्यामि । उपायस्तु भरटकरूपं करिष्यामि । राजा तु 'कर्ण१० मेरु'प्रासादे आयाति सोमवारे ध्रुवम् । देवं नत्वा व्यावर्तमाना
यास्मै बाह्याङ्गणे शेषादानमिषेण पुष्पकलम्बकमुत्पाटयिष्यामि । तत्र धृतया कर्तिकया कङ्कमय्या घातयिष्यामि। अङ्गीकृतसाहसानां न किञ्चिदपि दुष्करम् । अहं हतश्चेत् तत्र तदा मन्मानुषाणामुपरि
कृपा करणीया । उद्धृतश्चेदहं तदा जितं जितम् । एवं व्याघ्र१५ राजेन निगदिते आनाकेन वीटकं दत्तम् । विसृष्टोऽसौ । तत्
सर्व सावधानतया स्तम्भान्तरितया मया श्रुतम् । राज्ञि शुद्धान्ते गतेऽहं त्वदंहिसेवार्थमायाता । तस्मान्मा मनो मयि क्रोधकश्मलितं कार्षीः । एतद्दासीवचः श्रुत्वा चौलुक्यनियोगी चिन्तयति-लब्धं
शत्रुगृहमर्म । यतिष्येऽतः कार्यकरणाय । इति परामृशन् दासीम२० भाषत- याहि मृषाभाषिणि ! । कः स्त्रीवचसि विश्वासः ? ।
श्रूयते यन्न शास्त्रेषु, तल्लोकेऽपि न दृश्यते ।
तत् कल्पयन्ति लोलाक्ष्यो, जल्पन्ति स्थापयन्ति च ॥१॥ इत्यादि भाषित्वा तां व्यस्राक्षीत् । खयं तु चतुरांश्चतुरो याम
लिकानुपचौलुक्यं प्रास्थापयत् । विज्ञप्त्या चाज्ञापयत्- सावधानः २५ स्थयम् । इत्थं इत्थं खामिपादानामुपरि शत्रुकृतं कपटं वर्तते ।
भरटकश्चिन्तनीयः । चौलुक्यः सावधानस्तस्थौ । सोमवारे गतो . ख-घ--वारे ध्रुवम्' । २ घ- 'कर्तरितया'। पक्षिविशेष० । । अदुष्टुप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org