________________
प्रबन्धः]
प्रवन्धकोशेत्यपराये १०३ सङ्घभोज्यानि प्रातलाभनाश्च । अमारिस्तु नित्यैव । ___तस्य च कुमारपालदेवस्य भग्नी 'शाकम्भरी'श्वरेण 'चाहमान'वंश्येनं राज्ञा आनाकेन परिणीताऽस्ति । एकदा तौ सारिभिः क्रीडतः। क्रीडता राज्ञा सारिगृहे मुंश्चतोक्तम्- मारय मुण्डिकान् पुनरिय मुण्डिकान् । एवं द्विस्त्रिः । 'टोपिकारहितशीर्षकत्वान्मुण्डिका ५ 'गूर्जर'लोका विवक्षिताः । अथवा श्वेताम्बरा गूर्जरेन्द्रगुरवो मुण्डिका इति हासगर्भोक्तिः । राज्ञी कुपिता वदति- रे जङ्गडक ! जिह्वामालोच्य नोच्यते !, किं पक्षि? । न पश्यसि माम् ? । न जानासि मम भ्रातरं राजराक्षसम् ! । क्रुद्धो राजा तां पदा जघान। साऽप्याह- यदि ते जिहां अवटुपथेने कर्षयामि तदा राजपुत्री मा- १० ममंस्थाः । इति वदन्त्येव सा ससैन्या निर्विलम्ब 'श्रीपत्तन'मेल्य चौलुक्याय तं परिभवं प्रतिज्ञा च स्वोपज्ञामजिज्ञपत् । चौलुक्योऽभाषत- इस्थमेव करिष्यामः, कौतुकं पैश्यः । ततश्चानाकस्तस्यां तत्र गतायां 'गूर्जर'नृपतेजो दुर्धरं विदंश्चक्षोभ । चौलुक्योऽपि बह्वाप्तपरिच्छदं मन्त्रिणमेकं तत्रस्यवृत्तान्तज्ञानाय प्रेषीत् । गतः स १५ तत्र । जग्राह गृहम् । राजासन्नदासीमेकां धनेन रजयित्वा आत्मीयं भोगपात्रमकरोत् । नित्यं सा याममात्र्यां रात्र्यामायाति रञ्जयति तम् । एकदा निशीथे साऽऽगात् । मन्त्री कुपितः- आः पापे! परनृगामिनि ! किमिति विलम्बेन समानताऽसि ? । साऽपि संप्रश्रयं मन्त्रिणमभाषत- स्वामिन् ! मा कुपः । कारणेन स्थिताऽ- २० स्मि । मन्त्रिणोचे- किं कारणम् ? । सा जगाद- प्रभो! अहं अन्नस्य राज्ञस्ताम्बूलदासी । रात्रेर्याम एकस्मिन् राज्ञा परिच्छदः सर्वो विसृष्टः । अहमपि विसृष्टा । विसृजता चाप्तनर एकोऽभाषिव्याघ्रराजं हक्कारय । अहं स्तम्भान्तरिता कौतुकेन स्थिता । को व्याघ्रराजः । कथमाहूयते इति। ततो राज्ञाऽऽकारितः स आगतः, २५
१ ख-घ-क्रीडला' । २ घ- 'मञ्चतो.'। ३ 'टोपी' इति भाषायाम् । ४ ग'अवटपर्धन' । ५कूपमार्गेण । ६ क-'पश्य' । ७ घ-'परापरनृ०' | ८ सविमयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org