________________
१.२
चतुर्विशतिप्रबन्धे
[.. पोहेमचन्द्रसूरि
वाभोऽप्येष तथैव पातकसखः शुद्धिं कथं प्राप्नुयात्
न स्पृश्येत करेण चेद् यतिपतेः श्रीहेमचन्द्रप्रभोः ॥२॥ 'मेरुमहाध्वजावारितान्नदानयाचकसत्काराः प्रवर्तन्ते । मालोद्घटनप्रस्तावे ताशि सधे राज्ञि च निषण्णे महं वाग्भटः प्रथम लक्षचतुष्कमवदत् । प्रच्छन्नधार्मिकः कश्चित् कथापयति-लक्षाष्टौ; एवमन्योन्येष्वीश्वरेषु वर्धयत्सु कश्चित् सपादकोटी चकार । राजाऽपि चमञ्चकार, उवाच च- उत्थाप्यतां स यो गृह्णाति । उत्थितः सः । यावद् दृश्यते तावद् बाँदरमलिनवसनो वणिग्रूपः । राज्ञा
वाग्भटो भाषितः- नेम्मसुस्थं कृत्वा देहि । वाग्भटो वणिजा १० सहोत्थाय पादुकान्तिकं गत्वा द्रम्मसुस्थं पप्रच्छ तम् । वणिजा
सपादकोटिमूल्यं माणिक्यं दर्शितम् । मन्त्रिणा पृष्ठम्-कुत इदं ते ?। वणिगाह--- ‘महूअक'वास्तव्यो मत्पिता हंसाख्यः सौराष्ट्रिकः प्राग्बाटः । अहं तर्जगडः । माता मे घारुः। मम पित्रा निधन
समयेऽहं भाषित:-- वत्स ! चिरं कृताः प्रवणयात्राः फलिताश्च । १५ मेलितं धनम् । तेन च क्रीतं प्रत्येकं सपादकोटिमूल्यं माणिक्य
पञ्चकम् । अधुना प्रभुवृषभचरणौ शरणं मे । अनशनं प्रतिपन्नम् । क्षामिताः सर्वे जीवाः।एकं माणिक्यं श्रीऋषमाय, एकं श्रीनेमिनाथाय एकं श्रीचन्द्रप्रभाय दद्याः, माणिक्यद्वयमात्मनोऽन्तर्धनं दध्याः । बाह्यधनमपि प्रचुरतरमास्ते । इदानी माता मया सहानीता कपर्दिभवने मुक्ताऽसि । तां जरन्तीं मातरं सर्वतीर्थाधिकतया पुराणपुरुषैनिवेदितामेतां मालां परिधापयिष्यामि । श्रुत्वा हृष्टो मन्त्री राजा सङ्घश्च । मातृसम्मुखगमनं सर्वश्रावकाणां मालापरिधापनम् । तन्माणिक्यं हेम्ना खचित्वा ऋषभाय कण्ठाभरणमनुष्यकिरणभरितचैत्यगर्भमासूत्रयामहे । वैलितः सङ्घः, प्राप्तः पत्तनम् । प्रवर्तन्ते
१ शार्दूल० । २ ख- मरु० ' । ३ ख-घ- स गृह्णाति '। ४ स्थूल । ५ घ-'धर्मसुस्थं'। ६ घ-'धारूः'। ७क-घ-'क्षमिताः'। ८ ग--'मम' ।
क-चलितः'। १० 'वळ्यो' इति भाषायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org