________________
पट्टावली-समुच्चयः नगरादिषु जीर्णोद्धारान् पुण्योपदेशद्वारा कारापयन्तो हस्तसिद्धया च श्रीगौत. मावतारा इव, बुद्धया चाभयकुमारा इव, विद्यया चाभिनववनकुमारा इव, कृतज्ञतया श्रीरामचन्द्रा इव, धैर्येण गिरीन्द्रा इव, आज्ञया च सुरेन्द्रा इव, एकस्यार्थस्य शतार्थित्वेन श्रीसोमप्रभसूरय इव श्रीविजयसेनसूरयोऽष्टौ वाचकपदानि सार्द्धशतपण्डितपदानि च दत्वा द्विसहस्रीमितसंयतिसमुदायस्याशां 5 पूरयित्वा सवाईहीरविजयसूरिरितिबिरुधारका भट्टारकत्वं विंशतिवर्षाणि प्रपाल्याकब्बरपुरे १६७१ वर्षे ज्येष्ठकृष्णैकादश्यां स्वर्ग जग्मुः ।
सहिअमे सिरिविजयदेवसूरी संवह तवगणतरणितुल्लो ॥१॥२१॥ षष्टितमे पट्टे श्रीविजयदेवसूरिः । तवृत्तमपि यथादृष्टं कियलिख्यते यथा श्रीराजदेशमण्डले ईडरदुर्गे सम्वत् १६३४ वर्षे जन्म। ततो नवमे वर्षे- 10 १६४३ वर्षे जनन्या सह दीक्षा । ततः १६५५ वर्षे पण्डितपदं । ततोनुक्रमेण १६५६ वर्षे स्तम्भतीर्थे सूरिपदं । तद्व्यतिकरो यथा-सर्वव्यवहारिश्रेणिशिरोमणि सा० श्रीमल्लनामा स्वभ्रातृजन्मना सा० सोमाख्येन सह श्रीप्राचार्यपदस्थापनार्थमर्थव्ययं कर्नुकामः प्रकामप्रमोदेन मरुमेदपाटलाटसौराष्ट्रकच्छकुक णादिदेशेषु गुर्जरदेशे च प्रतिप्रामं प्रतिनगरं कुंकुमपत्रिकाप्रेषणा पूर्व सङ्घलो- 15 कान् सहस्रशः समाहूय तपागणयतियतिनीसप्तशतीमितपरिकरमाकारितवान् । अथ सकलसङ्घमिलनानन्तरं श्रीमलसाधुना बन्धुरताऽधरीकृतसुरमन्दिरे निजमन्दिरे दिव्यदुकूलकमनीयमण्डपं शक्रमण्डपमिव निर्माय विज्ञप्ताः श्रीविज. यसेनसूरयो वैसाखशुद्धचतुर्थ्यां चतुर्थे रवियोगे कुमारयोगे मृगांकमृगशिरः संयोगाद् अमृतसिद्धियोगेऽपि च श्रीविजयदेवसूरिरिति नामस्थापनपूर्वकं 20 सूरिपदं ददुः। अथ श्रीमलसाधुना संतुष्टेन सङ्घभक्तिस्तथाचक्रे यथा कल्पवृक्ष एवायमिति मेने । किंबहुना तस्मिन्महे सा० श्रीमल्लेन दशसहस्ररूप्यकव्ययः कृतः । ततस्तदनेतनदिने तत्रत्येन ठकरकीकाख्येन तत्पदोत्सवनिमित्तमेवाष्टसहस्ररूप्यकव्ययपूर्व प्रतिष्ठा कारिता । एवं सर्वसंख्यया श्रीविजयदेवसूरीणां पदमहे पंचाशत्सहस्रप्रमिता महिमुन्दिका व्ययिताः।ततः १६५८ वर्षे पत्तने 25 परीक्षकसहस्रवीरसंझेन पञ्जसहस्रमहिमुन्दिकाव्ययपूर्वकं गच्छानुज्ञानन्दिम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org