________________
श्रीतपागणपति- गुणपद्धतिः
८१
पदं प्रापुः । ततः क्रमाद् राजनगरे श्रीखानखानाख्यदमापपर्षदि जयश्रियं शि. श्रियः । श्रथ तत्रैव श्रीविद्याविजयनामकं स्वपदयोग्यं शिष्यं दीक्षयित्वा श्रा० श्रविकारितां प्रतिष्ठां, पुनर्गन्धारबन्दिरे सा० इन्द्रजीकारितां श्रीवीरप्रतिष्ठां, : पुनः स्तम्भतीर्थे श्राधनाईकारितां प्रतिष्ठां च कृत्वा तत्र चतुर्मासीं चक्रुः । ततः पारणे मेवात देशादागतान् श्रीहीरसूरीन् सोरोहीनगरे नत्वा स्तम्भतीर्थं पुनः 5 रागत्य प० वजिआराजि श्राख्यकारितश्रीचिन्तामणि पार्श्वनाथप्रतिष्ठां कृत्वा, क्रमेण १६५४ वर्षे ऽहम्मदावादे भूमध्यान्निर्गतां श्रीविजयचिंतामणिपार्श्वम्: र्तिं शकन्दरपुरेऽस्थापयत् । पुनस्तत्रैव वर्षे सां: मोटाख्यकारितां प्रतिष्ठा, पुनः दो० लहुआख्यकारितां प्रतिष्ठां कृत्वा लाटा [प] ल्यां ध्यानं विधाय क्रमात् श्रीगुर्जर तीर्थयात्रां श्रीसौराष्ट्र शत्रुञ्जयादितीर्थयात्रां च कृत्वा स्तर्भतीर्थे 10 श्रीविजयदेवसूरीणां सूरिपदं दत्वा पुनर्वर्षद्वयान्ते १६५ वर्षे पत्तने गच्छानुशां नंदि च कृत्वा श्रीशङ्खश्वरतीर्थयात्रायै समेतात् श्रीआचार्यसंयुतान् श्रीपूज्यान् द्वादशशतसंकटः सप्तशतीकरभतुरगोद्भटानेकसुभटविकटः संङ्घन्पतिहेमराजसङ्घी मरुस्थलीतः शत्रुञ्जययात्रार्थं व्रजन् महोत्सवेन प्राणमत् । ततः श्रीगुरवो राजनगरे चतुर्मासीं चक्रुस्तदा तत्रत्यैः श्राद्धैः श्रीगुरुवाक्प्रबुद्धैः पञ्चसप्तत्याद्यङ्गुलाई - 15 त्प्रतिमाणां महाडम्बरविशिष्टाः षट्प्रतिष्ठाः कारिताः । पुनस्तत्रत्येन सं०सूराख्येन प्रतिश्राद्धगृहं महिमुन्दिकां प्रयच्छता श्री अर्बुदाद्रि श्री राणपुरादिसकलतीर्थयात्रामासूत्र्य क्षेमेणागत्य श्रीसूरीन् प्रणत्य महती प्रभावना कृता । किंबहुना तत्राब्दे श्राद्धैर्महिमुन्दिकालक्षमेकं व्ययीकृतं । ततो राजधन्यपुरे प्रतिष्ठाद्वयं पुनः स्तम्भतीर्थे प्रतिष्ठामेका मकव्वरपुरे च गंधारबन्दिरे च प्रतिष्ठाद्वयं कृत्वा क्रमेण 20 सौराष्ट्रराष्ट्रसङ्घाग्रहेण श्रीशत्रुञ्जययात्रां विधाय तत्रदेशे चतुर्मासकत्रयं प्रतिष्ठाअष्टकं च कृत्वा रैवताद्रियात्रापूर्वं नवीननगरे ज्येष्ठस्थितिं स्थित्वा श्रीजामनामकं नृपं धर्मोपदेशतस्तुष्टुं कृत्वा ततश्चलन्तः श्रीशंखेश्वरपार्श्व प्रणम्य राजनगरे चतुर्मासीं बद्धाडम्बरविशिष्टां प्रतिष्ठां चतुष्टयीं च चक्रुः । इत्याद्यनेकसुकृत्यैर्जिनशासनं प्रभावयन्तोऽनेकसहस्रजिनप्रतिमाः पञ्चाशत्प्रतिष्ठासु प्रति- 25 ष्ठापयन्तो विमला चलतारङ्गनारंगपुरशङ्खेश्वरपंचास रराणपुरारासरणविद्या
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org